पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १२ ] विद्वन्मनोरञ्जनी ९७ वयवत्वरूपवत्वादेरुपाधित्वं शक्यं गुणकर्मणोः साध्याव्याप्तेः। भूतत्व द्रव्यत्व सामान्यवत्त्वादेश्च साधनव्यापकत्वात् । अत्र द्रव्यत्वव्यतिरिक्तावान्तरजाति मत्त्वमुपाधिरिति चेन्न प्रध्वंसेन साध्याव्याप्तेः । तस्योत्त्पत्तिमत्वेऽपि जात्या श्रयत्वाभावात् । न च साध्यस्योत्पत्तिमत्त्वस्य भावधर्मिकत्वान्न प्रध्वंसे प्रसक्तिरिति वाच्यमुत्पत्तिमात्रस्यैवाकाशे साध्यत्वात् । अन्यथा विप्रतिपत्य विषयाणां द्रव्यत्वादीनां धर्मिगतानां साध्यताप्रसङ्ग इत्यनुमानाकौशल मापद्येत । न चान्यः कश्चिदुपाधिरुत्प्रेक्ष्यते । अविभुत्वं त्वाकाशेऽपि वेदान्तिनः समानं ‘ज्यायानन्तरिक्षात्’ , ‘येनावृतं खं च दिवं” इत्या- दावात्मापेक्षयाकाशस्य न्यूनपरिमाणत्वश्रवणात् । अतो न तं प्रति तस्यो पाधित्वम् । नापि विरुद्धः साध्यविपर्ययाव्याप्तेः । नापि साधारणानैकान्तिको विपक्षाप्रवेशात् । नाप्यसाधारणः सपक्षगामित्वात् । नापि कालातीतो बाधकप्रमाणाानिरूपणात् । न चोक्तानुमानं बाधकमिति वाच्यं तस्य नर शिरःकपालयुद्धतानुमानवदागमबाधितविषयत्वस्योक्तत्वात् । न च श्रुतेरा काशाभिव्यक्तिमात्रार्थत्वान्नोत्पत्त्यर्थतेति वाच्यम् । सिद्धे चानुमानस्याबा धितविषयत्वेन प्रामाण्ये श्रुतेरन्यार्थत्वसिद्धिस्तसिद्धावितरसिद्धि रितीतरेत राश्रयात् । किञ्च ‘तस्माद्वा एतस्मtदात्मन आकाशः सम्भूत'” इति सकृच्छ्रुतः सम्भूतशब्द आकाशे साक्षात्सम्बध्यमानो गौणः स एव वाय्वा दावनुषज्यमानो मुख्य इति महदिदं व्याख्यानकौशलं तार्किकपशोः । नापि सन्दिग्धनैकान्तिकता विपक्षव्यावृत्तेः स्फुटत्वात् । नापि प्रकरण समता त्वदनुमानस्य दुर्बलत्वेनोभयोः समानबलत्वाभावात् । निरवयवद्र व्यत्वस्य विनश्यदवस्थापने पटे व्यभिचारात् । अवयवत्वात्यन्ताभावाधि करणत्वं निरवयवशब्देन विवक्षितमिति चेन्न । अवयवशब्देन प्रदेशवि- वक्षायां सर्वस्याप्यवयविप्रदेशस्यावयवत्वेनोपक्षीणत्वादवयव्यभावप्रसङ्गात् । आश्रयविवक्षायामन्यतरासिद्धो हेतुः स्यादाकाशाश्रयस्य ब्रह्मणो ममेष्टत्वात् । तस्मात्त्वदनुमानं न प्रतिपक्षः । नापि प्रतिपक्षान्तरमुत्प्रेक्ष्यते । तस्मा दनुमानेनाप्याकाशोत्पत्तेः सम्भावितत्वाच्छुष्कतर्कश्रद्धामनादृत्य श्रुत्युक्तमे- वाकाशजन्मेतरजन्मवच्छ्रद्धेयम् । अभ्युपगस्य चेदं परमाणूनामनुत्पति- मत्वं महत्त्वे सतीति हेतुर्विशेषितः । तदनभ्युपगमे तु भूतत्वादित्येव हेतुः । तथा हि चतुर्विधाः परमाणव उत्पद्यन्ते मूर्तत्वाद्भूतत्वाद्वा पटादिवत् । न च मनसि मूर्तत्वहेतोरनैकान्तिकता तस्यापि पक्षतुल्यत्वात् । न च १. Chk. 3. 14. 3. २. Mahmudra. 1. 8. ३. Thi%, 2, 1. ४. See page 96, line 22.