पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १३ ] विद्वन्मनोरञ्जनी १०१ भ्युपेयते. वस्तुनि तदयोगान्नापि समुच्चयस्तत्र प्रमाणाभावाकिन्त्विहोक्तस्य सप्तदशकस्यैव संक्षेपविस्तरभेदेन तथा तथा तत्र तत्र कथनम् । तथाहि । इहोक्तानां हि सप्तदशानामवयवानां भूतसूक्ष्माण्युपाद्रानानि तदुपादानं चाविद्या । अतश्चोपादानोपादेययोरभेदान्नाविद्या भूतसूक्ष्मेभ्यः पृथग्विव क्ष्यते । भूतसूक्ष्माणि च लिङ्गशरीरेभ्यो न पृथगभिप्रेयन्ते । कामकर्मणोर प्यन्तःकरणवृत्तित्वेन तदाश्रितत्वेन च तदभेदान्न पार्थगर्थ्य विवक्षा । अतः पुर्यष्टकवार्तिकेन न विरोधः । तथा पक्षान्तरेऽपि भूतसूक्ष्माणि तत्कार्येभ्यः पृथक्कृत्यन्तःकरणप्राणयोश्च वृत्तिवृत्तिमतोरभेदं गृहीत्वा सप्तदशत्वं निरूपि तम् । तथा च ‘‘सप्तदशः प्रजापतिः” इति श्रुतेः प्रजापतेर्हिरण्यगर्भस्य सप्तदशत्वावगमात्सप्तदशावयवमेव लिङ्गशरीरं मुख्यं ज्ञेयमिति । तदु क्तमभियुक्तैः ‘मुख्यं तु सप्तदशकं प्रथितं हि लिङ्गम्” ॥ इति । ज्ञानसाधनानीन्द्रियाणि-शानेन्द्रियाणि श्रोत्रादीनि । तेषां शब्दस्पर्श रूपरसगन्धग्राहकेन्द्रियत्वानि प्रत्येकं यथाक्रमं लक्षणानि । इन्द्रियाण्याहङ्का रिकाणीति सांख्यास्तान्निराकुवंस्तेषां भौतिकत्वं कथयति-एतानीति । कारण- गुणेनोत्पन्नत्रिगुणानां भूतानां सत्त्वगुणावच्छिन्नेभ्योंऽशेभ्यो गुणोद्रेककृतभा गेभ्यः श्रोत्रादीनि जातानीत्यर्थः । बुद्धिमनसी लक्षयति-बुद्धिर्नामेति । निश्चयोऽध्यवसायः । इदमित्थमेवेति विषयपरिच्छेदः । सङ्कल्प इदंनीलमिदं पीतमिति विषयविवेचनम् । विकल्पस्तद्विपर्यय इति भेदः । नन्वन्तःकरणस्य चतुष्ट्यत्वप्रसिद्धः कथमिह द्वयमेव गृहीतमित्यत आह-अनयोरेवेति । अनुसन्धानात्मिकान्तःकरणवृत्तिश्चित्तम् । अभिमानत्मिकान्तःकरणवृत्तिरह ङ्कारः । चित्तस्य बुद्धावन्तर्भावो विषयपरिच्छित्तिरूपत्वाविशेषात् । अहङ्कारस्य ममस्यन्तर्भावस्तस्यापि सङ्कल्पात्मकत्वा विशेषात् । एवं स्वरूपाभेदेऽपि विषयभेदात्क्वचित्क्वचितचित्ताहङ्कारयोर्बुद्धिमनोभ्यां पृथग्निर्देशः । बुद्धेर्ह्यपूर्वो विषयश्चित्तस्य पूर्वानुभूतः । तथा मनसो बाह्य आभ्यन्तरश्च सर्वोः विषयो यथायोगमहङ्कारस्य त्वनात्मोपरक्त आत्मैवेति । अतो विषयभेदेऽपि स्वरूपाभेदाधुक्तोऽन्तर्भावः । पूर्ववदेषां चतुर्णामप्यन्तःकरणभेदानां भौतिकत्वमाह--एते पुनरिति । उक्तानां ज्ञानेन्द्रियाणामन्तःकरणानां च भूतगतसात्त्विकांशकार्यत्वे हेतुमाह एतेषां प्रकाशात्मकत्वादिति । <तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्’’ । १. Satcpolid 5. 2. 2. 3. २. S¢sepg8'rvr¢b colka: ii. 19. ३. See Notes. ४. G. xiv. 6.