खण्डः १३ ] विद्वन्मनोरजनी । १०३ <दशेमे पुरुषे प्राणा आत्मैकादशः ” इति श्रुत्यनुरोधेन सिद्धान्तितत्वात् । अत्रात्मशब्दो मनोविषयः प्राणशब्द इतरेन्द्रियविषय इति भेदः। अणुत्वं चैषां परिच्छिन्नत्वे सति सूक्ष्मत्वलक्षणमभ्युपगन्तव्यं न तु परमाणुलक्षणः त्वम् । तथा सति सर्वं शरीरव्यापिकार्यानुपपत्तिप्रसङ्गात् । अपरिबिछन्नत्वे चोत्क्रान्तिगत्यागतिश्रुतिव्याकोपप्रसङ्गः । स्थूलत्वे चोत्क्रान्ति समये बिलान्नि र्गच्छन्त इव सर्पाः शरीरच्छिद्रेभ्यो निष्क्रममाणानीन्द्रियाणि प्रत्यक्षेणोपल- भ्येरन् । न चोपलभ्यन्ते । तस्मादुक्तप्रकारेणाणूनीन्द्रियाणि । ननु ‘‘अग्निर्वा ग्भूत्वा मुखं प्राविशत्” इत्यादिश्रुतेरभ्यादिदेवतानामेव सुखादिस्थानेषु वागा दीन्द्रियात्मना प्रवेशश्रवणात्कथमेतेषां भौतिकत्वमुच्यत इति चेन्नैष दोषः । देवतानामप्याधिदैविकप्राणात्मनां भौतिकदेहविशिष्टचेतनानामेवैश्वर्ययोगाद् ध्यात्मं वागादिरूपेण सुखादिष्ववस्थानस्येष्टत्वात् । तथा च भौतिकान्यपीन्द्रि याणि देवताशरीराणि चेति न विरुध्यन्ते । यद्वा इन्द्रियाण्युक्तलक्षणानि भौति- कान्येव देवतानां पुनस्'तदधिष्ठातृत्वेन तच्छरीरतया तत्र प्रवेश एव ‘अग्नि- र्वाग्भूत्वा” इत्यादावान्नायत इति । तथा च न्यायः: -–‘ज्योतिपयधिष्ठानं तु तदामननात्” इति । लिङ्गं च ‘स एतास्तेजोमात्राः समभ्याददानो हृदय- मेवान्ववक्रामति’’ इति तेजोमात्राणामिन्द्रियाणामुत्क्रान्तिसमये ह्रदयप्रवे शमुक्त्वा ‘‘स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्ततेऽथारूपज्ञो भवति” इत्यादित्यपुरुषस्य चक्षुषोऽपक्रमणं दर्शयति । ये पुनर्मुख्यप्राणस्य वृत्तिभेदा वागादय इति वदन्ति तेऽप्यनयैव नीत्या निराकरणीयाः । ‘‘ते ह वाचमू चुस्त्वं न उद्गाय” इत्युपक्रम्यासुरपाप्मविद्धत्वेन वागादीननुद्गातृन्निर्धार्य समाप्य च वागादिप्रकरणं ‘भंथ हेममासन्यं प्राणमूचुः” इति पृथगेव मुख्यप्राणस्य निर्देशात् । तथा सुषुप्तावपिवागादीनामुपसंहारो मुख्यप्राणस्य स्ववृत्तिकस्यास्ति जागरणमिति वैषम्यलिङ्गाश्च प्राणादिन्द्रियाणां भेदः । एव मादिन्यायकलापो द्वितीयेऽध्याये चतुर्थे पदे विस्तृतः। इह पुनर्वेदान्तसा रत्वाद्ग्रन्थस्य वेदान्तविहिता न्याया लेशतो दर्शिता इति । तस्माद्युक्तमिन्द्रि याणां भौतिकत्वादीति स्थितम् ॥ इदानीं वायुपञ्चकं विभजते-चायव इति । प्राग्गमनमप्रतो निःसरणम् । यद्यपि “प्राणो हृदये” इतिश्रुतेः, “हृदि प्राण’ इत्यभिधानाच्च हृदयस्थानः १ १ १. Brk. 3. 9. 4. २. See Notes. ३. Ditto. ४. Aj. 2. 4, ५. Brahm®8r® 2. 4. 15. ६. Brih, 4. 4. 1. ७. Iden. ८. Idem. 1. B. 2. ९. Ideno. 1. 3. . १० . T¢it. Brahmaga 3. 10. 8. 5. ११. See Notes
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११७
एतत् पृष्ठम् परिष्कृतम् अस्ति