पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ वेदान्तसारंटीका [ खण्डः १३.प्राणस्तथापि नासाग्रे प्रत्यक्षमुपलभ्यमानत्वांनासाग्रस्थानवर्तीत्युक्तम् । अध्रो नाभेरधस्ताद्गमनवानमलापनयनव्यापारेण । पायुर्गुदं तदस्थानवर्तीत्यर्थः । आदिशब्दादुपस्थग्रहः । तत्रापि मूत्ररेतोविसर्गस्या'पानकर्मत्वात्। विष्वक्प-- रितः सर्वतो गमनं विद्यते यस्य स तथा । प्राणाप(ननियमनकर्मारण्यामग्न्यु त्पादनादिवीर्यवत्कर्महेतुत्वादखिलशरीरवर्ती व्यानं इत्यर्थः। तथा च श्रुतिः -- “'अंथ यः प्राणापानयोः सन्धिः स व्यान” इत्युपक्रम्य ‘यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति’’ इति । यद्यपि ‘च- क्षुषो वा मूर्ध्नो वान्ये भ्यो वा शरीरदेशेभ्य’ इति श्रुतेरुत्क्रमणस्य चक्षुरादि- द्वारेष्वनियमस्तथापि कण्ठसम्बन्धस्य प्रायेण नियतत्वात्कण्ठस्थानवर्त्युदान इत्युक्तम् । अशितादेः समं नयनात्समान इत्यर्थः । मतान्तरमुत्थापयति स्वमतपरिशुद्धये–केचित्विति । तेषां लक्षणा न्याह—नाग इत्यादिना । उद्गिरणं छर्दिः । उन्मीलनशब्दो निमीलनस्याप्यु पलक्षणपरः। पोषणं पुष्टि: । अन्यत्प्रसिद्धम् । उत्थापितं मतं प्रत्याचष्टे -- एतेषामिति । केचिच्छब्द औपनिषदविषयः। एतेषां नागादीनां प्राणा दिष्वन्तर्भावादित्ययमर्थः। उद्गिरणं ह्यूर्ध्र्वमुखस्य वायोः क्रिया । ऊर्ध्र्वमुखस्य वायुरुदान इत्युक्तम् । तथा चोदनेनैवोद्गिरणस्यापि सिध्धौ नागस्य तत्कर्तु रुदानेऽन्तर्भावान्न ततः पृथक्त्वम् । उन्मीलनस्याङ्गश्चेष्टान्तर्गतत्वात्तस्याश्च व्याननिमित्तकत्वादुन्मीलनकर्तुः कूर्मस्य व्यानेऽन्तर्भावः । समानेनाशित- पीतादीनां पाकेन रसादिभावमापद्य सकलशरीरदेशेषु तत्प्रवेशने कृते सत्येव क्षुधोत्पत्तेस्तत्कर्तुः कृकलास्य समानेऽन्तर्भावः । जृम्भणस्य निद्रालस्यादि हेतुकत्वान्निद्रालस्यादेश्च वातुलाद्यन्नोपजीवीनिमित्तकत्वादन्नस्वीकरणस्य चापा नकमेंत्वादपान एव परम्परया जूम्भणहेतोर्देवदत्तस्यान्तर्भावः । अपाना- ख्यस्यान्तर्मुखतयु शरीरान्तः प्रविशतो वायोरन्नस्वीकरणहेतुत्वमैतरेयके समान्नायते—‘तदपानेनाजिघृक्षत्तदावयत्” इति । रसलोहितमांसादिक्रमेण शरीरेऽन्नपरिणामे सत्येव . पोषणापरपर्यायाः पुष्टेः सम्भवाद्रसादिनयनकर्तरि समाने धनक्षयस्यान्तर्भाव इति । तथा च प्राणादीनामेव यथायथ मुद्गरादिक्रियानिमित्ततयावस्थान्तरमापद्यमानानां -- नागादिसंज्ञाया अप्युप- पत्तौ तत्वान्तरकल्पनं तेषां गौरवमप्रामाणिकमिति भावः । श्रुतौ च पञ्चा- नामेव प्राणादीनां तत्र तत्र श्रवणात्तद्विरुद्धा चेयं कल्पना । प्राणादयोऽपि मुख्यस्यैकस्य प्राणस्य वृत्तिविशेष एव न तत्त्वान्तरभूताः। ‘‘प्राणोऽपानो व्यान उदानः समानोऽन’’ इति बृहदारण्यके वृत्तिमतः प्राणस्य निरूप १. Club. 1. 3. 3. २. Idea1. 3. 5. ३. B4K, 4. 4 2. ४. A&8, 3. 10. ५. Bri%. 1. 5. 3.