पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १३, १४] विद्वन्मनोरञ्जनी । १०५ सर्गानशब्दवाच्यस्य पृथङ्निर्देशात् । तथाच न्यायः—‘पञ्चवृत्तिर्मनोवप्यपदे- शात्’ इति । तथा मुख्यप्राणोऽपि वायोर्बाह्यस्य सूत्रात्मरूपस्य विकारो न शरीरमध्ये नभोवदवृत्तिलाभमात्रेणावस्थितो बाह्यवायुरेव । नापि वागादीनां सामान्यवृत्तिरूपा वा क्रिया । ‘‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुः” इतिश्रुतौ वायोरिन्द्रियाणां च प्राणात्पृथगेव निर्दिष्टवात् । तथा च न्यीयः --न वायुक्रिये पृथगुपदेशात्’’ इति । ‘‘अणुश्च” इत्यादिन्यायव- शादिन्द्रियवत्सूक्ष्मत्वादिकमपि प्राणस्यानुसन्धेयमिति सङ्गहः । प्राणादीनामपि पूर्ववदुपादानविशेषं सङ्कीर्तयति-एतदिति । उक्तानामेव कर्मेन्द्रियाणां प्राणादिभिर्मिलितानां पूर्ववदवान्तरविशेषमाह--इदं प्राणा दीति । प्राणादिपञ्चकस्य रजोंशकार्यत्वे लिङ्गमाह-अस्येति । उक्तं कोशत्र- यमनूद्य तेषां प्रतिनियतां व्यवस्थां दर्शयति--एतेषु कोशेष्वित्यादिना । ‘‘योऽयं विज्ञानमयः प्राणेषु ह्रद्ययन्तज्र्योतिः पुरुषः” इतिश्रुतेर्विज्ञानस्य चैतन्यं प्रत्यतिसन्निहितत्वाज्ज्ञानशक्तिमत्वम् ।‘कामः सङ्कल्पो विचिकित्सा” इत्यादि श्रुतेः कामापरपर्यायाया इच्छाया मनोवृत्तित्वावधरणादिच्छाशक्तित्त्वं मनोमयकोशस्य । स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः , ‘कॅस्मिन्नहमुत्क्रान्ते उत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ’, ‘‘स प्राणमसृजत” इत्यादिश्रुतेः प्राणमयकोशस्य क्रियाश- क्तिमत्त्वम् । योग्यत्वादित्यस्यायमर्थः । विज्ञानमयस्य तु कर्तृत्वमुपपादितं मनोमयस्य करणत्वं विवेकसाधनत्वात् । आत्मेन्द्रियविषयाणां सन्निकर्षे विद्य मानेऽपि यदन्वयव्यतिरेकाभ्यां ज्ञानभावाभावौ तन्मनोविवेकसाधनत्वात्क- रणपक्षपातीति युक्तं मनोमयस्य करणरूपत्वम् । तथाच श्रुतिः---अन्यत्र मना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रोषं’” इति, ‘‘तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति’” इति च । न्यायश्च भवति –‘नित्योपलब्ध्य नुपलब्धिप्रसङ्गोडन्यतरनियमो वान्यथा” इति । तथा तौ मिथुनं समैतां ततः प्राणोऽजायत ” इतिश्रुतेः प्राणस्य वाङ्मनसयोर्मिथुनीभूतयोरुत्पत्तिश्रव- णात्प्राणमयस्य कार्यरूपत्वं युक्तमिति । एवं सूक्ष्मशरीरस्यावयवान्सविशेषान्नि- रूप्यावयविनं निर्दिशति-एतत्कोशेति ॥ १३ ॥ ‘लिङ्गं मनो यत्र निषक्तमस्य’, अनन्तं वै मनोऽनन्ता विश्वेदेवाः” १२ १४ १. Brahmashtra 2. 4. 12. २. M[. 2. 1. 3. ३. Brahmud- str= 2, 4. 9. ४. Idem. 2. 4. 13. ५, B¢r%. 4. B. म. ६. Iden3. 1. 5. 3. ७. CH2O. 8. 12. 3. ८. Prox'८, 6. 3. ९. Idea6. 4. १०. Brih. 1. 5. B. ११. Idere. १२. Brahmaszly 2. B. 32, ३. B¢ih. 1. 5. 12, १४. Item. 4, 4. 6. १५. Item. B. 1. 9.