पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ वेदान्तसारटीका [ खण्डः १४ इत्यादिश्रुतिषु लिङ्गशरीरस्याप्येकत्वबहुत्वश्रवणात्तदेकत्वानेकत्वयोरप्यज्ञान- वदेव व्यवस्थेत्यभिप्रेत्याह-अखिलसूक्ष्म’ इति । अनयोस्तु व्यष्टिसमष्टयो रेकत्वं स्पष्टमेव पठ्यते । ‘‘वायुरेव व्यष्टिर्वायुः समष्टिः’ इति बृहदारण्यके । समष्टिलिङ्गशरीराभिमानिनश्चैतन्यस्य व्यवहारसिद्धान् व्यपदेशविशेषानाह एतत्समष्टीति । व्यपदेशत्रये निमित्तमाह--सर्वत्रेत्यादिना । सर्वेषानुस्यू तत्वात्सूत्रात्मा । ज्ञानशक्तिमदन्तःकरणोपहितत्वाद्धिरण्यगर्भः । क्रियाशक्ति मदधिदैवतप्राणरूपत्वात्प्राणस्तादृगध्यात्मप्राणरूपत्वाद्वा । यद्वा ज्ञानक्रिया शक्तिमत्समष्टिप्राणेन्द्रियसमुदायात्मकं समष्टिलिङ्गशरीरं तदुपहितत्वाज्ज्ञान शक्तिप्राधान्येन हिरण्यगर्भः क्रियाशक्तिप्राधान्येन प्राण इति च व्यपदेश इति योजना । तथाच श्रुतिवचनानि–‘वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेण” इति, ‘हिण्यगर्भः समवर्तताग्रे’ , “‘हिरण्यगर्भ जन- यामास पूर्व” इति, ‘कतम एको देव इति प्राण इति’’ चैवमादीनि । प्राण इति चोच्यते इति चशब्दात्कः प्रजापतिर्ब्रह्मेत्यादिव्यपदेशान्तराणि समुच्चीयन्ते । एवमुपहितस्य व्यपदेशभेदानुक्त्वोपाधेरपि तानाह-अस्यैवे त्यादिना । स्थूलप्रपञ्चो विराड्विज्ञानमयादिकोशत्रयं लिङ्गशरीरं सूक्ष्मशरीर मिति सम्बन्धः । मध्यप्रदीपन्यायेनोत्तरत्रापि जाग्रद्वासनेत्यत्र कोशत्रयपदं सम्बध्यते । वासनामयत्वं चास्य श्रुतिराह–तस्य हैतस्य पुरुषस्य रूपं यथा माहारजतं वसो यथा पाण्ड्नाविकं’’ इत्यादि, ‘‘सकृद्विधुत्तं”इत्यन्तेन । स्वप्नत्वं चास्याव्याकृतविराजोः सन्ध्यस्थानत्वादुपपन्नं ‘सैन्ध्यं तृतीयं स्वप्न- स्थानं” इति श्रुतेरविशेषात् । यतो वासनामयोऽत एवेति योजना । ‘अस्य लोकस्य सर्वोक्तो मात्रामपादाय स्वयं विहत्य’ इत्याद्या, ‘‘स्वप्नेन शारीर- मभिप्रह्रत्य” इत्याथा च श्रुतिः स्थूलशरीरस्य स्वप्ने लयं दर्शयन्ती तत्समष्टे र्महाप्रपञ्चस्यापि सन्धौ तं सूचयति । एवं समष्टिलिङ्गतदुपहितचैतन्ययोर्व्यप देशानुक्वा व्यष्टिलिङ्गतदुपहितचैतन्ययोरपि तानाह--एतदिति । तैजस व्यपदेश्यत्वे हेतुमाह--तेजोमया' इति । तेजोमयत्वं वासनामयत्वं ‘स्वयं निर्माय स्वेन भास’’ इति श्रुतौ भाःशब्देनान्तःकरणस्य वासनात्मनो १ १. Brih. 3. 3. 2. २. Ide2, 3. N. 2. ३. Ri%-%%X 10. 121. 1. ४. Soe%, 8. 4. ५. Brah. 3. 9. १. ६. After the manner of a lamp placed in the middle of a door (and throwing light both inwards and outwards). P. Occurs in Bhashya on M£a¢ 1. 1. 3. See Notes. ७. Bih. 2. 3. 6. ८. महा° MNPQ. ९. Bih. 4. B. 9. १०. Idem. ११. Idemn. 4 , 3. 11. १२. Idem . 4, 3. 9.