पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १५ ] विद्वन्मनोरखनी । १० दंशानुपपत्तिः केन वार्यते।न च वाय्वाकाशयोर्व्यवहार एव नास्तीति वाच्यम्। महान्वायुर्महन्नभ इति व्यवहारस्य सर्वजनीनत्वात् । ननु श्रुत्युक्तमित्येव त्रिवृत्करणं स्वीक्रियते न व्यवहारायेति चेन्न । त्रिवृत्करणवाक्ये स्वसम्बन्धिनः फलस्याभावात्फलवदात्मैक्यज्ञानार्थवादत्वे यथासृष्टिन्यायं त्रिवृत्करणं युक्त मर्धजरतीयस्यान्याय्यत्वात् । ननु शाखान्तरे भूतद्वयसृष्टेः श्रुतत्वात्तत्परित्यागानुपपत्तेश्छान्दोग्यतैत्ति- रीयादिश्रुत्योर्विरोधपरिहारायोपसंहारः क्रियते न तथा पञ्चीकरणं क्वचिच्छ्रु तमस्ति येन तन्न्यायोऽनुसरणीयः स्यादिति चेत्सत्यम् । तथापि न्यायानुस रणं युक्तम् । यथा त्रिसर्गश्रुतौ सृष्टानां भूतानां स्फुटतरव्यवहररूपनामरू पव्याकरणोपायतया त्रिवृत्करणं श्रुतं तद्वद्भूतपञ्चकसर्गश्रुतावपि तथा नाम रूपव्याकरणोपायः कश्चिदीश्वरस्येक्षितुर्मुक्तः । स चोपायविशेषस्तस्यैवेश्वरस्य भूतयोनेः शाखान्तरे त्रिवृत्करणरूपः श्रुतस्तत्परित्यागेनान्यस्य कल्पनायां प्रमाणाभावात्तस्यैव पञ्चसर्गश्रुतावप्युपसंहारे प्राप्ते तस्य पञेचीकरणार्थत्वमन्त रेण पञचानां भूतानां स्फुटतरव्यवहारोपायतानुपपत्तेर्युक्तं त्रिवृत्करणवाक्यस्य पञ्चीकरणोपलक्षणत्वमित्येतेन चरमः पक्षः प्रतिक्षिप्तः । त्रिवृत्करणश्रुतेः पञ्ची करणार्थत्व निरूपणे कृते तेन पञ्जीकरणस्य विरोधासम्भवात् । श्रुत्यभिप्राय श्चैवं वर्णितो विद्वत्तमाचार्येः—‘‘आकाशस्य सर्वावकाशतया सर्वाण्यतिरेकाद्वा- योश्च सर्वचेष्टाहेतुत्वेन सर्वाविनाभूतत्वात्तयोस्तेजःप्रभृतिष्वन्तर्भावं सिद्धवत्कृत्य त्रिवृत्करणं प्रयोगसौकर्यार्थं श्रुतिर्वर्णयाम्भूव’ इति । तस्मादस्ति पञ्जीकरणं प्रामाणिकमित्यलमतिनिर्बन्धेन ॥ ननु पृथिव्यादीनां भूतानां चेत्सर्वभूतात्मकत्वं तथा सतेि व्यवहारसा- ङ्कर्यप्रसङ्ग इत्याशङ्कयाह--पञ्चानामिति । वैशेष्याद्विशेषभावात् भागाधि क्यात्तद्वादो नभः पवनस्तेज जलं पृथिवीत्या दिव्यपदेशो भवतीति द्वितीया ध्यायसमाप्त्यधिकरणे न्यायेन निर्णयः कृतस्तेन न्यायेनाकाशादौ व्यवहारा साङ्कर्य सिध्यतीत्यभिप्रायः । इदानीं भूतानां पञ्चीकृतत्वे लिङ्गं चाह--तदा नीमिति । तदानीं पञ्चीकरणानन्तरमाकाशे शब्दोऽभिव्यज्यते । स्फुटतयेति सर्वत्र योजनीयम् । एतदुक्तं भवति । आकाशादीनां पूर्वपूर्वस्योत्तरोतत्तरं प्रति कारणत्वेन स्वस्वकार्यापेक्षया व्यापकत्वात्कार्याशसंवलितत्वेऽपि न कार्य गतगुणrश्रयतयाप्यभिव्यक्तिः किन्तु स्वस्वगुणाश्रयव्रयैव । तथा कार्याणां स्वकारणापेक्षयारूपत्वात्तेषां कारणभागसम्मिश्रितानां कारणगुणाश्रयतयापि भवत्यभिव्यक्तिरिति । तथा च लोकेऽनुभवः । प्रचण्डशब्दो वायुः । १. See Notes. २. Connot trace this. ३. Bhaska 2. 4 20–22. 10