पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

११ वेदान्तसारीका : [ खण्डः १५, १६ प्रजल्पति ज्वाला । नदी संघुष्यति । स्फुट्यमानः पाषाणः कोशतीत्यादि । स्पर्शादीनां तेजःप्रभृतिषु सद्भावोऽविवाद एव । न चैवमनुभवो भ्रान्तिर्व्य वहारदशायां बाधादर्शनात् । तथा च प्रति नियताश्रया अपि शब्दादयो गुणा यथायथं भूतान्तरेष्वप्युपलभ्यमाना भूतानां पञ्चीकृतत्वं गमयन्तीति ॥१५॥ एवं भूतारोपं प्रपञ्च्य भौतिकारोपमाह-एतेभ्य इति । भूरादयः प्राणिनां कर्मज्ञानफलभोगस्थानविशेषा यथापाठक्रममुपर्युपरेि वर्तमानाः सप्त भूमेर धोऽधश्च पाठक्रमेण वर्तमाना अतलादयः सप्तेत्येवं चतुर्दश लोकाः । एत एव स्वावरणभूतलोकालोकपर्वततद्वाह्य पृथिवी तद्बाह्यसमुदैः सहिता ब्रह्माण्डमित्यु च्यते । अस्य च परिमाणं श्रुतौ सङ्कीर्तितं —‘‘द्वात्रिंशतं वै देवरथाह्न्यान्वयं लोकस्तं समन्तं पृथिवी द्विस्तावत्पर्येति तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति” इति । शरीराणां चातुर्विध्यं स्पष्टयति-शरीराणीति । यथोद्देश- क्रमं शरीराणि लक्षयति-जरायुजानीत्यादिना ननु वैशेषिकाः प्रत्य्क्षाप्रत्यक्षवृत्तेरप्रत्यक्षत्वात्पञ्चात्मकत्वं न विद्यत इति वदन्तोऽप्रत्यक्षाभ्यां वाय्वाकाशाभ्यां सह पृथिव्यादिभिरारभ्यमाणानां शरी राणामप्यप्रत्यक्षत्वप्रसङ्गान्न पाञ्चभौतिकं शरीरमित्याहुस्तत्कथं पञ्चभ्यो भूते भ्यश्चतुर्विधभूतग्रामस्योत्पत्तिरुच्यत इति चेदत्राहुः । अस्ति हि शरीरे सर्वेषा मपि भूतानां कार्यसम्प्रतिपत्तिरवकाशव्यूहनपचनक्लेदनकाठिन्यानां सर्वज नानुभवसिद्धत्वात् । अतस्तत्कारणतया पञ्चापि भूतान्येकस्मिन्देहे सन्तीति स्थिते यदि तेषां भूतानां देहावयवत्वाभावो वृत्तिलाभमात्रतैव स्यात्तदा तदपगमानपगमाभ्यां देहस्योपचयापचयौ न स्याताम् । दृश्येते च तयोःसतोरुपचयापचयावतस्तन्तुपटयोरिवावयवावयवित्वमेव पञ्चभूतदेहयो र्युक्तम् । पार्थिवे कार्येऽपार्थिवांनां भूतानां वृत्तिलाभमात्रत्वे तु तदुपगमा पगमभ्यां तस्योपचयापचयायोगात् । न हि वस्त्रस्यानारम्भकसलिलद्रव्या- र्द्रीकृततस्य तदवस्थायामुपचयस्तपगमे वापचयोऽस्ति तदायामविस्तारयोस्त दवस्थास्वदर्शनात् । तथाच जलदृत्योरपि पावकपवनोपगमापगमाभ्यां परि माणान्यथात्वं न दृश्यते । तथा च यदि भस्नादाविव पार्थिवे देहे भूतान्त रस्य वृत्तिमात्रता स्यात्तर्हि भस्त्रादिदेहयोरविशेषेण व्यूहनादीनां सत्त्वमसत्त्वं वा तुल्यवत्प्रसज्येत । अदृष्टवदात्मनः संयोगतज्जन्यप्रयत्नादिकारणान्तरस्या- प्युभयत्र समानस्यापादयितुं शक्यत्वात् । न च प्रत्यक्षाप्रत्यक्षवृत्तेः शरीर स्याप्रत्यक्षत्वं शङ्कनीयम् । प्रत्यक्षाप्रत्यक्षावयववृत्तीनामवयविनामप्रत्यक्षत्वप्र सङ्गात् । न च स्पर्शशून्यत्वादेकद्रव्यत्वाच्चाकाशस्यारम्भकत्वानुपपत्तिरिति १. Brih, 3, 3. 2. २. See Notes, ३. वृदो' P.