पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

११२ वेदान्तसारटीका [ खण्डः १७ त्पाठे स्थूलशरीरे वर्तमानस्यैव सूक्ष्मशरीरकारणशरीरयोरप्यनुगतस्वादिति हेत्व र्थोऽनुसन्धेयः । सर्वथा विश्वशरीरवर्तित्वाद्विश्व इत्युक्तं भवतीति भावः । अस्यापीति पूर्ववत् । एषेति व्यष्टिरुच्यते । पूर्ववद्विश्ववैश्वानरयोरपि जाग्र त्स्थित्यवस्थापनं भोगविशेषं सप्रकारं प्रपञ्चयति --तदानीमित्यादिना । दिगा दिपञ्चदेवतानियन्त्रितेन श्रोत्रादीन्द्रियपञ्चकेन यथापाठक्रमं शब्ददिगन्धा न्तान्स्थूलविषयाननुभवत इति प्रत्येकं योजनीयम् । अग्न्यादिदेवतापञ्चकनिय व्रितेन वागादिपञ्चकेन वचनाद्यानन्दान्तांस्तथा चन्द्रादिदेवताचतुष्टयनियन्त्रितेन मनआदिचतुष्केण सङ्कल्पादिचैत्यान्तांश्चतुरः । सर्वानेतानिति । यथा यथं यथोक्तक्रमानुरोधेन सर्वानेतान्स्थूलभोगान्विषयाननुभवत इत्यर्थः । अत्रापि प्रमाणमाह-जागरित’ इति । आदिशब्दात् ‘स्थूलभुग्वैश्वानर” इति वाक्यशेषग्रहः । १ इदमत्र बोद्धव्यम् । जाग्रदवस्थायां हि प्रमातृप्रमाणप्रमेयव्यवहार भव न्ति तत्र प्रमाणैर्योऽर्थं प्रमिणोति स प्रमाता येन प्रमिणोति तत्प्रमाणं यत्प्र मीयते तत्प्रमेयमिति सर्वतन्त्रसिद्धान्तः । तत्र यः प्रमाता जीवचेतनः स विषयं प्रमिण्वन् कया प्रत्यासत्त्या प्रमिणोतीति विचारणीयम् । आत्ममनइ न्द्रियविषयाणां क्रमेण संयोगपरम्परयेति चेन्न । विषयसंयुक्तसंयुक्तेष्वपि संयोगपरम्परया युगपत्सर्वावभासप्रसङ्गात् । यावदिन्द्रियसम्बन्धस्तावदेव हि भासत इति नातिप्रसङ्ग इति चेन्नेन्द्रियसन्निकर्षस्यापीयत्तानवधारणात् । इन्द्रि यसन्निकर्षानन्तरं योऽर्थः स्फुरति तावन्मात्रं सन्निकृष्यत इति चेन्न । इन्द्रि यसन्निकर्षस्येयत्तावधारणात्स्फुरणस्य विषयनियमस्तस्मिन्सतीन्द्रियसन्निकर्षेय त्तावधारणमिति परस्पराश्रयात् । किञ्चोक्तसन्निकर्षस्य ज्ञानोत्पत्तिमात्रे क्लृप्त त्वात्तदनन्तरं तस्यावस्थाने कल्पकाभावान्न ज्ञानस्य विषयेण सह सम्बन्धः स्यात् । तथा च मयेदं विदितमिति स्वात्मनि सम्बन्धनुसन्धानाभावप्रसङ्गः । न चाश्रयद्वारा सम्बन्ध इति वाच्यं ज्ञानस्य सर्वगतारमाश्रयत्वे युगपत्स- र्वविषयसम्बन्धारस्रर्वावभासप्रसङ्गः । देहावच्छिन्नात्मप्रदेशाश्रितस्य देहस्य बाह्यविषयासम्बन्धान्न बाह्य किञ्चिदपि भायात् । ननु सम्बन्धाभावेऽपि ज्ञानज्ञेययोरुद्दिष्टे विषये ज्ञानमतिशयं जनयतीति नाव्यवस्थेति चेन्नानुद्दि ष्टेष्वपि दुर्गन्धादिषु ज्ञानकृतातिशयदर्शनात् । अदृष्टवशात्किञ्चिद्देव भासत इति चेन्न । तस्य दृष्टसामग्रीसम्पादकत्वेनान्यथासिद्धत्वादगतिकत्वाच्च । तस्मान्न किञ्चिदेतत् । अतो वक्तव्या जीवस्य विषयग्रहणव्यवहारे व्यवस्थेति । तदुच्यते । न तावदस्मन्मतेऽनुपपत्तिरस्ति यतो जीवस्य सर्वगतत्वासर्वगत- १. So N%; चेत्या° MR; चित्ता° P. २. M{d¢z. ४. ३. See अधिकरणसिद्धान्तन्याय in Macinm08 iii.