पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १७] विद्वन्मनोरञ्जनी ११३ त्वपक्षयोरप्यन्तःकरणकृता व्यवस्था सम्भवति । तथाह्यपरिच्छिन्नपक्षे ताव दन्तःकरणमेव मनोबुद्ध्यादिशब्दवाच्यं प्रमातृत्वादिव्यवहारापादकम् । यतोऽ विद्यावृततया सर्वत्राप्रकाशमानमप्यात्मचैतन्यमन्तःकरणसंसृष्टं सदवभा सते दर्पणद्रव्यसंसृष्टरविरश्मिवत् । तच्चान्तःकरणमदृष्टादिसहायं विषयसं- वेदनवेलायां तडागकुल्या क्षेत्रगतोदकप्रवाहवद्देहतद्बाह्यदेशतद्रत विषयानभि- व्याप्यावतिष्ठते । तत्र च तिसृष्वप्यवस्थास्वात्मचैतन्यं तदात्मनैवाभिव्य ज्यते । तत्र देहमध्यान्तःकरणभागावच्छिन्नं चैतन्यं प्रमातृसंज्ञां लभते । देहविषययोर्मध्ये दीर्घप्रभाकारेणेन्द्रियद्वारा निर्गतान्तःकरणभागावच्छिन्नं प्रमाणसंज्ञाम् । विषयमभिव्याप्य विषयाकारतयावस्थितान्तःकरणभागा- वच्छिन्नं प्रमेयसंज्ञाम् । इति प्रमातृप्रमाणप्रमेयव्यवस्थोपपत्तिः । एवमभ्यु पगमे येन विषयेण सहेन्द्रियस्य सन्निकर्षों दूरे वान्तिके वावतिष्ठमानेन तत्रैव तदाकारमेवान्तःकरणं परिणमते नान्यत्र नान्याकारमिति च लभ्यते । तद- नुरक्तचैतन्यात्मनश्चैकत्वान्मयेदं विदितमिति सम्बन्धावभासश्चोपपद्यते नान्य था । परिच्छिन्नात्मपक्षेऽपि जीवत्वोपध्यन्तःकरणस्य पूर्वोक्तप्रकारेणावस्थाभे दसम्भवे उपाध्यनुगामित्वादुपहितस्य स्वोपाध्यन्तःकरणं यद्यदात्मनावतिष्ठते तत्तदात्मना प्रत्यगात्मचैतन्यमप्यवभासमाने ग्राह्यग्रहणग्राहकभेदव्यवस्थाम नुभवत्यग्निरिवायःपिण्डादिसमारूढ इत्यनवद्यम् । न चेयं कल्पना तार्किककल्प नावत्पुरुषबुध्द्युप्रेक्षामूला किन्तु श्रुतिमूला । तथा च श्रुतयः —‘‘से समानः सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव सधीः स्वप्नो भूत्वैवं लोकमतिक्रामति, ‘नैवद्वारे पुरे देही हंसो लेलायते बहिः”, “आसीनो दूरं व्रजति’, ‘‘मॅनोमयो विज्ञानमय" इत्यादयः । उक्तं च भगवत्पादैः सर्वश्रुत्यर्थसङ्ग्रहे दक्षिणामूर्तिस्तोत्रे- ‘नानाछिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्यन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जग- त्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये” ॥ € युक्तिरपि मनसो बाह्यविषयदेशगमनाभावे इन्द्रियसन्निकर्षपरम्परया देहान्तरे च विषयाकारतास्वीकारे बहिरेतावति दूरेये विषयो मयोपलब्ध १. See Notes. २. Bih. 4. 3. म. ३. This is the reading of the Madhyanding recension. The Kanva has स हि. ४. See८: B. 18. ५. . 2. 21. ६. Brih. 4. 4, 5. ७. Verse 4. See बहुछिद्रघटप्रदीपन्याय in decime ii (2nd edn).