पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ वेदान्तसारणीका [खण्डः १७१८ इति प्रतिसन्धानं न स्यात् । अनेकायामविस्तीर्णदेशतन्निष्ठरथगजाद्याकारभा चस्यान्तहृदयेऽनुपपत्तेः । न च स्वप्नवदुपपद्यत इति वाच्यं ; स्वप्नस्य मायाम= यस्योक्तत्वात् । जाग्रद्रपि मायामयमेवेति चेत्सत्यं तथापि स्वप्नाद्व्यवहारभे सिद्धये तयोः कियदप्यस्ति वैषम्यं सति प्रमातरि बाध्यमानत्वाबाध्यमानत्वा भिमानादिलक्षणम् । नन्वखण्डब्रह्माकारा वृत्तिरन्तरेव जायत इति चेद्वाढं सा हि देहाद्याचरणमुपमर्दयन्ती जायते बाह्यविषया तु नैवमिति वैषम्यं स्यात् । किञ्च यदि विषयेन्द्रियसम्बन्धमात्रमन्तःकरणस्य विषयाकारताहेतुस्तदा दूरवर्तिविष यगतपरिमाणरूपसंख्यादीनामपि तदाकाराकारितेऽन्तःकरणे यथावदवभास प्रसङ्गः । न च दूरलक्षणादोषत्तथा नावभासत इति वाच्यम् । तस्येन्द्रियस म्बन्धमात्रे प्रतिबन्धकत्वाभावात् । ननु तवापीन्द्रियसंसृष्टाकारता मनस इति स्थिते कथं दूरस्थविषयेयत्ताद्याकारता मनसो न भवेदिति चेन्मैवं मम तु मनसो बहिरस्वातन्त्र्याद्यावद्भिरवयवैरवयविभिर्वा चक्षुःसन्निकर्षस्तावन्मात्रा- कारमेव मनः परिणमत इति श्लिष्यते । तत्र तु पदार्थसन्निकृष्टेन्द्रिये सति तद्गतभूयस्त्वाल्पत्वदृढत्वादृढत्वविशेषानादरेऽप्यन्तस्तदाकारवृत्युयोपपत्तेर्वि षयेयत्तादेरपि स्फुरणं प्रसज्येतेति वैषम्यात्तस्मादस्ति प्रत्यक्षव्यवहारे बाह्यम नोवृत्तिर्विषयाकारेति स्थितम् । परोक्षव्यवहारे तु विशिष्टशब्दलिङ्गादिबल निबन्धनात्तत्तदर्थाकारा धीरन्तरेव समुन्मिषति विषयसत्तामात्रस्यैव तत्र स्फुर णात्तद्गताविशेषादेरस्फुरणाच्चेति दिक् । तथा च स्वभावस्थायामात्मा बुध्द्यु– पाधिः स्वप्न दर्शनहेतुकर्मक्षये जागरितमागच्छन्पूर्वगृहीतेपु करणेपु पुनः स्वस्वगोलकस्थानेषु तथैव बुध्द्या प्रसारितेषु सत्सु स्वयं तद्बुध्ध्यनुगतस्त त्तद्गोलकादिदेशं गच्छन्स्वोपाध्यन्तःकरणेन्द्रियसचिवस्तत्तदिन्द्रियविपायननु मेयांश्व स्थूलान् व्यावहारिकान्पदार्थाननुभवति । तदिदमस्य जागरितम् । तद्भुक्तं—‘इन्द्रियैरथोर्पलब्धिर्जागरितं” इति । अयमेव विश्ववैश्वानरात्मनः स्थूलभोग इति । अत्राप्यनयोः स्थूल° इत्यादि पूर्ववत् । स्थूलप्रपञ्चाध्यासं सावस्थमुपपादितमुपसंहरति-एवमिति ॥ १७ ॥ ८ उक्तं प्रपञ्चत्रयं तदुपहितचैतन्यत्रयं च पूर्ववत्सदृष्टान्तमेकीभावमापा- दयति-एषामित्यारभ्य आभ्यामित्यतः प्राक्तनेन ग्रन्थेन । स्पष्टार्थोऽयं ग्रन्थः । फलितमाह—आभ्यामिति । तत्पदार्थविषयमध्यारोपमुपसंह रति-एवमिति ॥ १८ ॥ १. See परतन्त्रं बहिर्मनः in Macinox iii. So PQR ; but MN, २. तद्वतविषया'. ३. Sankara's Politiclaramळ ; See Notes.