पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः १९ ॥ विद्वन्मनोरञ्जनी १ १६ अधुना त्वम्पदार्थविषयमध्यारोपं बहुवादिमतोपन्यासेन दर्शयति-- इदा नीमिति । तत्रारून्धतीप्रदर्शनन्यायेन मुञ्जादिषीकाग्रहणन्यायेन वा प्रत्यञ्चं देहादि विविक्तं चिदेकतानमात्मानं दिदर्शयिषुरतिमूढमतेर्मतं तावदाह अतिप्राकृत इति । अतिप्राकृतस्तु पुत्र आत्मेति वदतीत्यन्वयः । कुत इत्यपेक्षायां श्रुतियुक्त्यनुभवाभासान् क्रमेण प्रमाणयति-“आत्मा वेत्या दिना । स्वस्मिन्निवेति युक्तिकीर्तनं लोके हि पुत्रिण इष्टमिष्टं खाद्यादि स्वात्मवचनेनापि पुत्रेषु समर्पयन्तस्तेषु परमप्रेम कुर्वन्तस्तेषामात्मत्वमेव प्रकटयन्तीति भावः । पुत्रे नष्ट इत्याद्यनुभवोक्तिः ॥ मतान्तरमाह-चार्वाक इति । स्थूलशरीरमात्मेति वदन्तीत्यन्वयः । अत्रापि श्रुत्यादिप्रमाणं वदन्प्रागुपन्यस्तपक्षे दूषणं सूचयति –स वा एष इत्यादिना । एवमेवोत्तरेष्वपि पक्षेषु प्रमाणादिग्रन्थोत्थानं द्रष्टव्यम् । स वै य ओषधीनां रेतोरूपेण परिणतानां परिणामः प्रसिद्ध एव प्रत्यक्ष पुरुषः शिरःपाण्याद्यात्मकोऽन्नरसमयोऽन्नरसविकारोऽन्नरसेनैवोपचीयमानत्वा दिति श्रुतेरर्थः। इह पुरुषशब्दस्य लोक भात्मनेि प्रयोगात्तस्य च श्रुतावन्न- रसमये देहे प्रयुक्तत्चाद्देह आत्मेति गम्यत इत्यभिप्रायः । परमप्रेमगोचत्व- मात्मन्येव विश्रान्तमितरस्य सर्वस्यापि तच्छेषत्वेनैव प्रियत्वात् । “तदे तत्प्रेयः पुत्रात्प्रेयो वित्तास्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा” इति श्रुतेश्च । सा च प्रीतिः पुत्रादपि देहेऽधिकतरा निरतिशया च दृष्टा । अन्यथा दह्यमाने गृहादौ हन्तृषु चोपस्थितेषु पुत्रं परित्यज्य स्वस्य पलाय- नानुपपत्तेरिति युक्त्यर्थः । अहम्प्रत्यय आत्मानमवगाहत इति सर्ववादि नामविवादः । स च कृशोऽहमित्यादिना देहावलम्बनोऽनुभूयतेऽतो देह एवात्मेत्यर्थः । लोकायतानां चार्वाकविशेषाणां मतभेदानाह-अपरश्चार्वाक इत्यादिना बौद्धस्त्वित्यतः प्राक्तनेन ग्रन्थेन । अन्वयादि पूर्ववत् । प्राणानां वागादीनां प्रजापतिगमनं तं प्रति प्रश्नकरणं चाचेतनत्वे न सम्भवतीत्यनुपपत्त्या तेषां चैतन्यमवश्यम्भावीति श्रुतार्थापतिरिह मानं न श्रुतिरेवेति द्रष्टव्यम् । इन्द्रियाणामभावे उपरमे स्वपादौ देहचलनस्य चैतन्यकार्यंस्यादर्शनात्तद् नुपरमे च तद्दर्शनादन्वयव्यतिरेकाभ्यामिन्द्रियाण्येव चेतनानि न देह इति निश्चीयते । न च तेषां करणत्वेनापि ज्ञानान्वयव्यतिरेकोपपत्तौ तदाश्रयत्व कल्पनमयुक्तमिति वाच्यमाश्रयसिध्ध्युत्तरकालीनत्वात्करणत्वकल्पनायास्तस्य चाश्रयत्वस्य देहेऽधाप्यसिद्धेर्नान्ययोपपत्तिः । अत इन्द्रियाण्येवास्मानः १. See Notes. २. Ditto. ३. Brih. 1. 4. 8.