पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ । वेदान्तसारीटीका [ खण्डः १९, २० एवेति भावः । अनुभवमाह-अहमज्ञ इति । अहमज्ञो ज्ञानहीनोऽहं ज्ञानी ज्ञानवानित्यनुभवोऽपि ज्ञानात्मनोर्धर्मधर्मिभावेन भेदं द्रढयतीत्यर्थः । मतान्तरमाह-भाट्ट इति । आहुस्त्वज्ञानोपहितं चैतन्यमात्मेति वदती स्यन्वयः । अज्ञानोपहितत्वमज्ञानसंवलितत्वं ज्ञानाज्ञानरूपत्वं तदपि द्र्व्य बोधरूपत्वमिति यावत् । तत्र माण्डूक्यश्रुतिं प्रमाणयति-प्रज्ञानघन इति । प्रज्ञानघनः प्रज्ञानैकरसः । एवकारेण रसान्तरसम्बन्ध वारयति । आनन्द मय इत्यानन्दप्रचुरो नानन्द विकारः । प्रचुर्यार्थे मयडन्तनिर्देशादीषदानन्द स्वभावतापि द्रव्यांशकृतात्मनि गम्यत इति भावः । युक्तिमाह–सुषुप्ताविति । सुषुप्तौ प्रकाशाभावे सुषुप्तिरसाक्षिकेति सुखमहमस्वाप्समित्युत्थितस्य परा मशो न स्यान्न तदेन्द्रियमनसां व्यापारोऽस्ति येन तज्जन्यज्ञानेनापि तत्परा मर्शः स्यात् । नाप्यविद्या प्रकाशिका जडत्वात् । परिशेषादात्मैव बोधांशः प्रकाशक इति प्रकाशसद्भावसिद्धिः । न किञ्चिदवेदिषमिति परामर्शा दात्मन्येव सुषुप्तावशेषविज्ञानाभावत्त्वमपि कल्प्यतेऽतस्तत्राप्रकाशो द्रव्यां शश्चास्तीति भावः । ननु सुषुप्तावेवात्मनो ज्ञानाज्ञानरूपत्वं नावस्थान्तर इत्याशङ्कमनुभवाभिनयेन प्रत्याचष्टे-मामहभिति। अहमित्यात्मनि कर्तरि भासमानेऽपि मां न जानामीत्यनुपसंहृतविशेषस्य तस्यैव कर्मत्वमपि तस्मिन्नेव ज्ञाने भासत इत्यवस्थान्तरेऽपि द्यात्मक आत्मेत्यभिप्रायः ज्ञानस्यात्मधर्मत्वेऽपि न ततोऽत्यन्तभेदस्तादात्म्याङ्गीकारात् । समवायस्य च समवयिभ्यां सह सम्बद्धत्वासम्बद्धत्वविकल्पासहत्वेनाप्रामाणिकत्वा दिति भावः । माध्यमिकमतमुत्थापयति-अपरो बौद्ध इति । इदं नामरूपात्मकं जगदग्रे सृष्टेः प्राक्कालेऽसच्छून्य मेवासीदिति बौद्धाभिप्रायेण श्रुतेरर्थः । युक्तिमाह–सुषुप्ताविति। तामेव स्वानुभवोपन्यासेन द्रढयति-अहमिति । अतः शून्यमात्मा सर्वाभावरूपो न द्रव्यबोधात्मक इति भावः ॥ १९ ॥ एवं प्रत्यगात्मस्वाधिष्ठानं मतभेदेनोपन्यस्तं दूषयितुमारभते—एतेषा मिति । तत्र तावत्पूर्वपूर्ववादिमतमुत्तरोत्तरवादिमतेन दूषितमिति पुत्रादि शून्यपर्यन्तस्यानात्मत्वं तेरेव वादिभिः स्फुटीकृतमित्याह -एतैरिति । ननु कथं वावदूकविवाददर्शनमात्रेण पुत्रादीनां शून्यपर्यन्तानामनात्मत्वमवधा रयितुं शक्यते श्रुतियुक्त्यनुभवानां प्रत्येकमुपन्यस्तवादित्याशङ्का सत्य- मुपन्यस्तास्तैः श्रुत्यादयः किन्तु ते सर्व एवाभासाः पुत्रादिशून्यपर्यन्ताति- रिक्तप्रत्यगात्मस्वरूपसमर्पकप्रबलश्रुतियुक्त्यनुभव विरोधादित्याह--किञ्चेति । न केवलं परस्परविगीतत्वादेव पुत्रादीनामनात्मत्वं किन्तु प्रबलश्रुत्यादिभिः 1. Panini. 5. 4. 21