पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डेः ३०] विद्वन्मनोरखनी । १ १९ पूर्वेषां श्रुत्यादीनां बाधितत्वादपीति योजना । तत्र ‘‘आत्मा वै पुत्रनामासि” इतिश्रुतेः प्रत्यक्श्रुत्या बाधः । प्रत्यक्त्वं नाम सर्वान्तरत्वम् । "स वा एष पुरुषोऽन्नरसमय” इतिश्रुतेरस्थूलश्रुत्या बाधः । ‘‘ते ह प्राणाः प्रजापतिंं’ ”. इत्यादिश्रुतिसामथ्र्यसिद्धेन्द्रियात्मत्वस्याचक्षुरित्यादिना बाधः । ‘अन्योऽन्तर आत्म प्राणमयः’, ‘‘अन्योऽन्तर आत्मा मनोमय"’ इत्यनयोरप्राणोऽमना इत्याभ्यां बाधः । ‘‘अन्योऽन्तर आमा विज्ञानमय” इत्यस्याः श्रुतेरकर्ते त्यनेन बाधः । ‘अन्योऽन्तर आत्मानन्दमय ” इत्यस्याश्चैतन्यमित्यनेन बाधः । ‘प्रज्ञानघन एवानन्दमय ’ इत्यस्याश्चिन्मात्रमित्यनेन बाधः । ‘‘असदेवेदं’ इत्यस्याः सदित्यनेन बाध इति प्रत्येकं योजनीयम् । अत्रोदा हृतश्रुतीनामित्यमक्षरविन्यासाः क्रमेण द्रष्टव्याः । ‘‘कश्चिद्धीरः प्रत्यगात्मा नमैक्षत्”, “‘अस्थूलमनण्वहस्वमदीर्घम्’ , ‘अचक्षुःश्रोत्रं तद्पाणि पादम्", ‘‘अप्राणो ह्यमनाः शुभ्रः ', ‘‘अनन्तश्चास्मा विश्वरूपो ह्यकर्ता’, ‘‘मैं चास्ति वेत्ता मम चित्सदाहम्’ , ‘चिन्मात्रोऽहं सदाशिवः", “सदेव सोम्येदमग्र आसीत्’’, ‘सत्यं स आत्मा ” इति । आदिशब्दात् ‘‘एवं स आत्मा सर्वान्तरः ”, ‘अशरीरं शरीरेषु ', ‘'प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो बिदुः”, “केन प्राणः प्रथमः प्रैति युक्तः, 'येतो वाचो निवर्तन्ते अप्राप्य मनसा सह’, ‘न करोति न लिप्यते , ‘साक्षी चेता केवलो निर्गुणश्च ’, ‘‘कुत्रः प्रज्ञानघन एव , सन्तमेनं ततो विदुः” इत्याधाः श्रुतयः संगृह्यन्ते । इदमत्रानुसन्धेयम् । पुत्रात्मश्रुतिस्तु देहावलम्बिनीति तस्या गौणार्थत्वं स्पष्टमेव । ‘‘ते ह प्राणा” इतिश्रुतिरर्थवादत्वान्न स्वार्थपरा । अन्नमयाद्या- नन्दमयान्तश्रुतेर्मुञ्जादिषीकावत्सर्वान्तरब्रह्मपुच्छशब्दवाच्यात्मप्रतिपयुपाया- र्थत्वेनोपन्यस्तत्त्वान्न तस्याः स्वार्थपरत्वम् । प्रत्यगादीनां सिद्धान्त्युपन्यस्त श्रुतिवचनानां तु वक्ष्यमाणोपक्रमादिलिङ्गैरात्मयाथात्म्यपत्वमिति युक्तं प्राबल्यमिति ७ १९ 99 .१ १. For this and the other Srutis here referred to, see below. २. Kotha 4. 1. ३. Bri%, 3. 8, 8. ४. [, 1. 1. 6. ५. Iden. 2. 1. 2. ६. Soet, 1. 9. ७. Kodualya 21. ८. Iden. 18. ९. Chha. 6. 2. 1 . १०. Ider2. 6. 8, 7. ११. Bh3. 4. 1, १३. Kc¢la 2. 22. १३. Bih. 4, 4. 18. १४. MNR. insert. here with the Madhyandina wecepsion, अन्नस्यार्जु१५. Kery 1, १६. ai%, 2. 4. 1. १७G5 xiii. 31, १८: S०et, 6, 11. १९. Rg8. 4, 5. 13. २०. Taik. 2. 6. 1. २२: प्रत्यक्वा ' NQR,