पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः?ऽ२, २३ ] विद्वन्मनोरञ्जनी १२३ रित्यत्रादिपदात्सूक्ष्मशरीरं स्थूलशरीरं च गृह्यते । एतदनुपहितं प्रत्यक्चिति मात्रम् । शेषं पूर्ववत् । उभयत्रापि यथायोगमव्याकृतं समष्टिस्वप्नजागरौ सुषुप्तिर्यष्टिस्वप्नजागरौ चेत्येवमवस्थात्रययुकमिति योजयितव्यम् अज्ञान तत्कार्यसमस्तप्रपञ्चेषु सत्तास्फूर्तिप्रदत्वेनानुस्यूतं चित्सदानन्दाद्वयात्मकं वस्तु तत्पदलक्ष्यार्थः । देहेन्द्रियमनोबुद्धिप्राणाहंकृतितद्धर्मजाग्रत्स्प्नसुषुप्त्यव- स्थाभ्यो विलक्षणस्तत्साक्षी चिद्धातुस्त्वम्पदलक्ष्यार्थं इत्याह-एतदुपाध्युप हितेति ॥ २२॥ पदार्थप्रतिपत्तिपूर्वकत्वाद्वाक्यार्थप्रतिपत्तेरादावध्यारोपापवादाभ्यामवान्तर- वाक्यावष्टम्भेन पदार्थं परिशोध्येदानीं महावाक्यार्थें निरूपयितुमुपक्रमतें -अथेति । वाक्याद्वाक्यार्थप्रतिपत्तिक्रममदै सशृङ्गति-–इदमिति । उक्त मेव विभजते-सम्बन्धत्रयं नामेति । उक्ते विभागे नैष्कर्यसिद्धिवचनं संवादयति-तदुक्तमिति । भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे तात्प- र्य’सम्बन्धः सामानाधिकरण्यमिति ॥ सामानाधिकरण्यलक्षणमभिप्रेत्य तस्योदाहरणं तत्त्वम्पदयोरनुवर्तयति सामानाधिकरण्यसम्बन्धस्तावदिति । तत्कालोऽतीतकालः । एतत्कालो वर्तमानकालः । परोक्षत्वादीत्यादिशब्दान्नियन्तृत्वादिग्रहः । अपरोक्षवादीत्या- दिपदान्नियम्यत्वादिग्रहः॥ व्यवच्छेदकं विशेषणं व्यवच्छेद्यं विशेष्यं तयोर्भावो विशेषणविशेष्य भावः। स एव सम्बन्धः सम्बन्धवदुभयनिरूपणीयत्वादित्यभिप्रेत्य विशेषण विशेष्यभावसम्बन्धं सदृष्टान्तमाह-विशेषण° इति । सोऽयम्पदार्थयोर्मध्ये कस्य वा विशेषणता कस्य वा विशेष्यता किं तद्विशेषणकृत्यमित्यपेक्षायां द्वयोरपि पदार्थयोः परस्परापेक्षया विशेषणविशेष्यभावो भेदभ्रमापोहश्व विशेषणकृत्यमित्यभिप्रेत्याह--अन्योन्यभेदव्यावर्तकतयेति ॥ अभिधेयाविनाभूतप्रवृत्तिर्लक्षणा । सा त्रिविधा जहल्लक्षणाऽजहल्लक्षणा जहदजहल्लक्षणा चेति । वाच्यार्थमशेषतः परित्यज्य तत्सम्बन्धिन्यर्थान्तरे वृत्तिर्जहल्लक्षणा । वाच्यार्थापरित्यागेन तत्सम्बन्धिनि वृत्तिरजहल्लक्षणा । वाच्यार्थैकदेशपरित्यागेनैकदेशवृत्तिर्जहदजहल्लक्षणा । तत्र प्रकृतवाक्ये लक्ष्य लक्षणसम्बन्धं सोदाहरणमाह-लक्ष्यलक्षणसम्बन्ध इति । पदवाच्यार्थयोः परस्परविरुद्धत्वान्नान्योन्यं विशेषणविशेष्यभाव उपपद्यते । तथा च तत्समर्पक- योरपि पदयोः सामानाधिकरण्यवशात्प्रतीयमानस्यैकवाक्यार्थस्यानुपपतिरिति लक्षणायां प्रसक्तायां वक्ष्यमाणप्रकारेण जहदजहल्लक्षणयोः प्रकृतासङ्गतौ पद वाच्यगतविरुद्धांशप्रहाणेनाविरुद्धांशलक्षणया सामानाधिकरण्ये सति वाक्या-