पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२६ वेदान्तसारटीक़ा . [खण्डः,२७, .२८ विशिष्टस्य केवलाद्भिन्नवात्त् । यथा. केवलो विशिष्टाद्भिन्नस्तथा विशिष्टोऽपि केवलाद्भिन्न एव । तथा ,च विशिष्टविषयस्यायंशब्दस्यापि विना लक्षणां न तत्स्वरूपनिष्ठत्वं सम्भवति । तदभावे च सोऽयम्पदयोः सामानाधिकरण्येन देवदतैक्यप्रतिपादकतेत्यास्तां तावत् । अपरे पुनराहुर्ने पदवाच्यार्थयोः परस्परविरोधाल्लक्षणाश्रीयते किन्तु वाच्यार्थैक्ये तात्पर्याभावादिति । तन्न । तात्पर्याभावावगमस्यापि विरोधस्फूर्त्यधीनत्वात् । अन्यथा वेदवाक्यप्रति- पादितेऽर्थं संवादि विसंवादिप्रमाणान्तराविषये तात्पर्यानवगमायोगात् । तस्मा त्सुष्टूक्तं वाक्यार्थस्यांशे विरोधादिति ॥ २७ ॥ तदेवं "आत्मेति तूपगच्छन्ति ग्राहयन्ति च” इतिन्यायेन जीवस्य नित्य शुद्धबुद्धमुक्तसत्यज्ञानानन्तानन्दपरिपूर्णब्रह्मात्मत्वोपदेशवाक्यार्थ सप्रपञ्चं नि रूप्येदानीमवगतस्वरूपस्यानुभवावभासिवाक्यार्थं वर्णयितुमुपक्रमते--अथे त्यादिना । उपदेशवाक्यार्थनिरूपणानन्तर्यमथशब्दार्थः । अधिकारिणो विधि वदधीतवेदेत्यादिखण्डलोक्तलक्षणस्यासम्भावनाविपरीतभावनाख्यचित्तदोषर- हितस्याध्यारोपादिन्यायेनाचार्योपदेशसमनन्तरमेव नित्यशुद्धबुद्धत्वादि विशेषणं ब्रह्माहमस्मीत्यखण्डाकारान्तःकरणवृत्तिरुदेति साक्षात्काररूपा न पुनः परो क्षार्थाकारितेत्यर्थः । न च शब्दस्य परोक्षज्ञानजनकत्वस्वाभाव्यान्न तेनापरोक्षा चित्तवृत्तिरुदेतीति वाच्यम् । `यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर ” इतिश्रुतेर्नित्यापरोक्षं ब्रह्मात्मस्वरूपं तस्मिन्परोक्षज्ञानं जनयतः शब्दस्या- प्रामाण्यपत्तेः । किञ्च ज्ञानस्य परोक्षत्वापरोक्षत्वे न करणनिबन्धने किन्त्वर्थ निबन्धने एकस्यैव मनसः सुखादि विषयकापरोक्षज्ञानहेतुत्वस्यातीतार्थस्मृति हेतुत्वस्य च दर्शनात् । तत्र सहकारिभेदात्तथाभाव इति चेत्तर्हीहाप्यस्ति सहकारिभेदः शब्दप्रतिपत्तुः शब्दार्थेनैकट्यानैकवट्यलक्षणः । निकटं ह्यत्यन्त मात्मनः स्वरूपं ब्रह्म न त्वस्वरूपमुपाध्यन्तराविष्टमिन्द्रवरुणादिरूपम् । तस्मा द्दशमस्त्वमसीत्यादिवक्यवत्तत्वमस्यादिवाक्यानामपरोक्षज्ञानजनकत्वं युक्त मिति भावः । एवमुत्पन्नाखण्डाकारा चित्तवृत्तिः किं करोतीति तदाह--सा त्विति । वृत्तेर्जडत्वादज्ञानबाधनासम्भवमाशङ्क्य तां विशिनष्टिः -चित्प्रतिबिम्ब १. GY. Amaradasa's ny६ya “विशिष्टं शुद्धान्नातिरिच्यते” on pp. 5 and 205 of his tika on Sharact& (Venkates'vara Press, Bombay, 1901). २. Brahmskrc ¥ 1. ३. ३. The occurrence of this form is noteworthy. The Ms. M. has खण्डलक. ४. Bra. 3. 4. 1. ५. Updes'csdlogyr® xviii. 174-6; Paficiendos' vi. 23-27.