खण्डः ३० ॥ १२९ e न्नेव स भवति असद्ब्रह्मेति वेद चेत् । अस्ति बह्मेति चेद्वेद सन्तमेनं ततो विदुः” इति,को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्” इत्युपपत्तिः ॥ तथा मुण्डके च-‘अथ परा यया तदक्षरमधिगम्यते’ इत्युपक्रमः । ब्रह्वेदममृतं पुरस्तात्” इत्युपसंहारः। ‘‘येनाक्षरं पुरुषं वेद सत्यं’, ‘‘तदे तदक्षरं ब्रह्म”, “तमेवैकं जानथ आत्मानं”’ इत्याद्याभ्यासः । ‘न‘ चक्षुषा गृह्यते नापि वाचा” इत्यारभ्य ‘‘वेदान्तविज्ञानसुनिश्चितार्थाः इत्यन्तेना पूर्वतासूचनम् । ‘‘निरञ्जनः परमे साम्यमुपैति’, ‘‘ब्रह्मं वेद ब्रहमैव भवति ’ इति फलश्रुतिः । “‘येथा सुदीप्तपावकाद्विस्फुलिङ्गाः ” इत्याद्यर्थवादः । ‘‘कस्मनु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति”’ इत्येकविज्ञानेन सर्व बिज्ञानप्रतिज्ञारूपा ह्युपपत्तिः । एवमैतरेयादिष्वपि शाखान्तरेऽषूपक्रमाद्यूह नीयम् मननं लक्षयति-मननं त्विति । केवलं पुरुषबुद्युत्प्रेक्षितशुष्कतर्क व्यावृत्यर्थं वेदान्तानुगुण इति विशेषणम्। आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्म वेद नेतरः ॥ १ । इति स्मृतेः। अत्र धर्मशब्दो ब्रह्मणोऽप्युपलक्षणार्थः । अनवरतपदं मनन स्यावश्यकत्वद्योतनार्थम् । निदिध्यासनलक्षणमाह—विजातीय’ इति । चित्तस्य ज्ञेयामना निश्चला- वस्थानं समाधिस्तं विभज्य लक्षयति –समाधिरित्यादिना । सविकल्पकः सम्प्रज्ञातसमाधिर्निर्विकल्पकोऽसम्प्रज्ञातसमाधिरिति साम्प्रदायिकी संज्ञा द्रष्टव्या । तत्रेटत्युद्दिष्टसमधिद्वयं सप्तम्यर्थः । ज्ञाता ज्ञानं ज्ञेयं चेति यो विकल्पो विभागोल्लेखस्तस्य लयोऽभावस्तदनपेक्षया ज्ञात्रादिविकल्पोल्लेख पूर्वकमिति यावत् । अद्वितीय’ इति च्छेदः। सविकल्पकसमाधिलक्षणार्थ सुदाहरणेन प्रत्याययति--तदा मृदिति । यथा मृद्विकारे गजे कुम्भकारादि निर्मिते गजोऽयमित्यस्यां बुद्धौ गजाकारोल्लेखेऽपि मृन्मात्रमेव सत्यं भासते गजाकारस्य मिथ्यात्वनिश्चयादेवं ब्रह्माकारायां वृत्तौ ज्ञात्राद्याकारे उलिख्य मानेऽपि ब्रह्मैव सत्यं भासते न ज्ञात्रादिविकल्प इत्यर्थः । १. 'dik. 2. T. 1. २. Mu¢1. 1. 5. ३. Iden. 2. 2. 11 . ४. Ider4, 1. 2. 13. ५. Ideb. 2. 2. 2. ६. Iden. 2.2.5. ७. Idena, 3. 1. 8. ८. Idem. B. 2. 6. ९. Iderm. 3. 1. 3, १०. Idea, 3. 2. 9. ११. Idem. 2. 1. 1. १२. Idexm. 1. 1. 3. १३. Many. xii. 196.
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४३
एतत् पृष्ठम् परिष्कृतम् अस्ति