पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१ ३२ । वेदान्तसारटीका [ खण्डः ३३, ३४ उक्तलयादि विघ्नचतुष्टयाभावेन वित्तस्य ज्ञेये वस्तुनि यन्नैश्चल्यं तदृृष्टान्तेन निर्विकल्पकसमाधिलक्षणमित्याह--तदेति । विघ्ननिवृत्त्युपायं सम्मतिप्रदर्शने नाह--तदुक्तमित्यादिना । लये सम्बोधयेत् उत्तम्भयेत्सोसाहं मनः कुर्यादिति यावत् । विक्षिप्तं चित्तं धैर्यावलम्बनेन पुनः शमयेत्पुनर द्वितीयवस्तुनिष्ठं कुर्यादित्वेतत् । सकषायं चित्तं विजानीयात्कलुषितं मे वित्तमिति विज्ञाय च समेऽद्वितीयचैतन्यात्मनि निवेशयेत्। पुनः शमप्राप्तं तन्न चालयेत्तत्रैव प्रयत्नपूर्वकं स्थिरीकुर्यादित्यर्थः । रसं सविकल्पकानन्दं नास्वादयेत्तदानन्दमात्रेण कृतार्थतां न मन्वीत किन्तु प्रज्ञया विवेकबुध्ध्या निःसङ्गः सविकल्पकानन्देऽनासक्तो भवेदित्यर्थः । एवं विघ्नपरिहारे सति यन्निर्विकल्पकसमाध्यवस्थानं चित्तस्य तद्भगवद्वाक्योदाहरणेन दर्शयति--यथा दीप इति ॥ ३३ ॥ एवंविधसमाध्यन्तसाधनानुष्ठानपरिपाके सति पूर्वोक्तप्रकारेण ब्रह्मात्मैक्य- साक्षात्कारे दृढीभूतेऽविद्यातत्कार्यात्मकसर्वसंसारनिवृत्तौ जायमानायां काक तालीयन्यायेन यदि प्राररूधकर्मक्षयात्तत्काल एव विदुषः शरीरपातस्तदा सद्य एव मुक्तिः स्यात् । यदा तु ज्ञानत्पत्तिसमये प्रारब्धकर्म न क्षीयते तदा तक्षयपर्यन्तं शरीरस्यावस्थानाज्जीवन्नेव मुक्तसंसारो भवति । तस्य लक्षणं वक्तुं प्रतिजानीते-अथेति । अथशब्दः साधननिरूपणानन्तर्यार्थः । लक्षणमाह-जीवन्मुक्तो नाम इति । ब्रह्मनिष्टत्वं वेदान्तवेद्यब्रह्मात्मना वस्थितत्वम् । ब्रह्मनिष्ठो जीवन्मुक्त इत्युक्ते परमार्थतो ब्रह्मनिष्ठत्वममुक्तस्या प्यस्तीत्यतो विशिनष्टि-अखिलबन्धरहित इति । परममुक्तवैधर्म्यसिद्धये प्रारब्धकर्ममात्रशेष इति विशेषणान्तरमध्याहर्तव्यम् । कथमसौ मुक्त इत्यपेक्षायामाह -अज्ञानतत्कार्य° इति । अज्ञानं सदसन्यामनिर्वचनीय मेत्याद्युक्तलक्षणम् । तत्कार्यं स्थूलसूक्ष्मप्रपञ्चद्वयम् । सञ्चितं कर्म ज्ञानो त्पत्तेः प्रागुत्पन्नमनारब्धफलम् । संशयो देहाद्यतिरिक्तो ब्रह्मस्वरूप आत्मा भवति न वेति । अथवा ब्रह्मात्मविज्ञानान्मोक्षो भवेन्न वेत्यादिविचिकित्सा । विपर्ययो देहादिष्वात्माभिमानादिलक्षणः । आदिशब्दाद्बाह्यप्रपञ्चे सत्यस्व बुद्धिः । एतेषां बाधितत्वान्मुक्त इत्यर्थः । एतत्कदा स्यादित्याकाङ्क्षायामाह स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते सतीति । साक्षात्कारे साधन माह--स्वस्वरूपाखण्डब्रह्मज्ञानेनेते ॥ तत्त्वसाक्षात्कारानन्तरं मुक्त एव भवतीत्यत्र प्रमाणमाह--भिद्यत इति । हृदयग्रन्थिरहङ्कारश्चिज्जडात्मकत्वाद्ग्रन्थिरिव ग्रन्थिः। सर्वसंशय दृष्टादृष्टार्थ- १. So MSS. but शमयेत् P. २. Maxiway i (2nd edh.).