पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

अण्डः ३४३५ ] विद्वन्मनोरञ्जनी १३ ३ श्रेषया विचिकित्साः । अस्यात्मनः कर्माणि जीवन्मुक्तिपक्षे प्रारब्धाति tक्तानि सञ्चितानि क्रियमाणानि च । तथा च न्यायः—‘तदधिगम उत्तर घयोरश्लेषविनाशौ तद्यपदेशात्” इति । परममुक्तिपक्षे प्रारब्धसहि न्यपि क्षीयन्ते । कदा । तस्मिन्निष्प्रपञ्चे ब्रह्मात्मनि दृष्टे सति साक्षात्कृते इति । कथम्भूते । परावरे सर्वात्मके । अत्र सर्वात्मकत्ववचनं तब्यति- tक्तस्याभावपरम् । चौरः स्थाणुरितिवद्वाद्धायां सामानाधिकरण्यस्य विवक्षि त्वात् । यद्वा परो हिरण्यगर्भः सोऽवरो न्यूनो यस्मात्तस्मिन्परावर त्याथर्वणीयश्रुत्यर्थः । आदिपदात् ‘‘यस्तु सर्वाणि भूतानि’, ‘‘यस्मिन्सर्वाणि तानि’’ इति च मन्त्रद्वयमीशावास्यगतं परिगृह्यते । श्रुतेश्चेति । चकारात् 'यथैधांसि समिद्धोऽग्निः’, ‘‘यज्ज्ञावा न पुनर्मोहं ’, ‘ब्रह्मभूतः प्रसन्नात्मा v शोचति न काङ्क्षति" इत्यादिस्मृतयः समुच्चीयन्ते । न च जीवन्मुक्तौ |मrणभावः । “तद्यथाहि निरुर्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते’, ‘ऍस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये” इत्यादि श्रुतेः ‘‘फ्रजहाति यदा कामान्’ ’, ‘‘प्रकाशं च प्रवृत्तिं च’” इत्यादिस्मृतेश्व माणत्वादिति द्रष्टव्यम् ॥ ३४ ॥ ननु जीवन्मुक्तो देहेन्द्रियादिभिर्व्यवहरति न वा । आद्ये तस्य बद्धान्न वेलक्षणता । द्वितीये देहस्यानुपयोगात्सद्यःपातप्रसङ्ग इत्याह--अयं तु [ति । आरब्धफलानि भुज्यमानानि पूर्वपूर्ववासनया क्रियमाणानि च कर्माणि साक्षितया कर्तृत्वभोक्तृत्वाभिमानहीनोऽन्यदृष्ट्या पश्यन्निव भास- गनोऽपि परमार्थतः स्वदृष्टया न पश्यति ज्ञानेन कर्तृत्वाद्यभिमानमूला नस्य बाधितत्वाद्बद्धाद्विलक्षण एवायमित्यर्थः । बलवत्प्रयुक्तबाणपाषाणा- देवत्प्रवृत्त फलस्य कर्मणो यावद्वेगक्षयं निवारकाभावात्तदधीनस्य देहस्य न सद्यःपातप्रसङ्ग इति दष्टव्यम्। उक्तमर्थं दृष्टान्तेन स्पष्टयति-यथेन्द्रजालं इति । बाधितत्वबुद्धेरनुवृत्तेरित्यर्थः । जीवन्मुक्तो देहादिभिर्व्यवहरन्निव दृश्य मानोऽपि न परमार्थतो व्यवहरतीत्यत्र श्रुतिं प्रमाणयति--सचक्षुरचक्षु रेवेति । चक्षुरादिमानपि प्रपञ्चयरूपाद्यदर्शनाच्चक्षुरादिहीन इव भवतीत्यर्थः । आदिपदात् तदेजति तनैजति’ इत्यादिश्रुत्यन्तरग्रह । उक्तेऽर्थे पूर्वाचार्य- सम्मतिमाह-उक्तं च सुषुप्तवदिति । जाग्रति जाग्रदवस्थायां द्वयं पश्यन्नपि यः सुषुप्तिं गतवद्विशेषतो न पश्यति स आत्मवित् । विशेषादर्शने हेतुः-अद्वयत्वत इति । द्वयस्य बाधितस्वादित्यर्थः । तथा कुर्वन्नपि न करोति १. Brahmastra 4. 1. 18. २. Verses 6, 7. ३. Gya iv. 37. ३. de v. 35. ५. Iden xviii. 54. ६. Bk4, 4. ग. ७. Chhi. 6. 14, 2. ८. Gy ii, 55. ९. Idena iv. 22, १०.le', 5. 12