( ण्यः ३८7 विद्वन्मनोरञ्जनी । १३५ इदानीमुक्तं जीवन्मुक्तमनूध तस्य परममुक्तिं दर्शयति--किं बहुना इति । देहयात्रा देहस्थितिः तन्मात्रार्थ न त्विन्द्रियप्रीत्यर्थम् । सुखदुःखलक्ष णानि सुखदुःखसाधनानि । आरब्धफलानि भोग्यानि । अनुभवन्नसङ्गतया भुञ्जानः कथं भुञ्जन इत्युच्यते अन्तःकरणाभासादीनां विषयाकार वृत्तीनां साक्षितयावभासकः सन्निति यावत् । तदवसाने प्रारब्धफलभोगt वसाने जात आश्रयाभावात्प्राणे ब्रह्मणि लीने सति पूर्वसिद्धज्ञानेनैव प्रारब्ध कर्माक्षिप्ताज्ञानतत्कार्यतत्संस्काराणामपि विनाशात्सञ्चितकर्मणां ज्ञानेन दाहा त्क्रियमाणैश्वासंश्लेषात्पुनर्देहान्तरहेत्वभावात्परमकैवल्येत्यादिनोक्तब्रह्मस्वरूप एवावतिष्टते विद्वानित्यर्थः । निर्गुणब्रह्मसाक्षात्कारवतः प्राणानोत्क्रामन्ति किन्तु प्रत्यग्ब्रह्मण्येव तप्तायःपीताम्बुवल्लीयन्त इत्यत्र प्रमाणमाह-न तस्येति । मुक्तेरसाध्यत्वे काठकश्रुतिं प्रमाणयति-विमुक्तश्च विमुच्यत इति । पूर्वमपि मुक्त एव सन्नविद्याप्रत्युपस्थापितनामरूपोपाध्यविवेकनिबन्धनस्य संसाराभासस्य नित्य शुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयप्रत्यग्ब्रह्मरूपोऽहमस्मीत्यपरोक्षज्ञानाद्विलयापे क्षया विमुच्यत इत्यर्थः न बन्धो न वा मोक्षः । तथा च " , ‘न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता” ॥ इत्याद्या ३८ ॥ विद्यासीतावियोगक्षुभितनिजसुखः शोकमोहाभिपन्न श्चेतःसौमित्रिमित्रो भवगहनगतः शास्त्रसुग्रीवसख्यः इत्वास्ते दैन्यवालिं मदनजलनिधौ धैर्यंसेतुं प्रबध्य प्रध्वस्तबोधरक्षःपतिरधिगतचिज्जानकिः स्वात्मरामः वेदान्तसारविवृतिं रामतीर्थाभिधो यतिः चक्रे श्रीकृष्णतीर्थश्रीपदपङ्कजषट्पदः ॥ इति श्रीकृष्णतीर्थपूज्यपादशिष्यश्रीरामतीर्थयतिविरचिता विद्वन्मनोरञ्जनीनाम्नी वेदान्तसारटीका समाप्त । १. C£. अतितप्तलोहक्षिसनीरबिन्दुवत् on p. 57, and see Note on it, २. Gaudapada's Ka•j%ds 2. 32. C£. Balthortle 10. ‘
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४९
एतत् पृष्ठम् परिष्कृतम् अस्ति