पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
[खण्डः ४
वेदान्तसारः

प्रमाता । काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि । निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि । नित्या न्यकरणे प्रत्यवायसाधनानि सन्ध्यावन्दनादीनि । नैमि त्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि । प्रायश्चित्तानि पापक्षयसाधनानि चान्द्रायणादीनि । उपासनानि सगुणब्रह्म विषयमानसव्यापाररूपाणि शाण्डिल्यविद्यादीनि । एतेषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनमुपासनानां तु चित्तैकाग्र्यं "तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" इत्यादिश्रुतेः "तपसा कल्मषं हन्ति" इत्यादिस्मृतेश्च। नित्य नैमित्तिकप्रायश्चित्तोपासनानां त्ववान्तरफलं पितृलोकसत्य- लोकप्राप्तिः ‘कर्मणा पितृलोको विद्यया देवलोक इत्यादि श्रुतेः । साधनानि नित्यानित्यवस्तुविवेकेहामुत्रार्थफलभोगवि रागशमादिषट्संपत्तिमुमुक्षुत्वानि । नित्यानित्यवस्तुविवेक स्तावद्ब्रह्मैव नित्यं वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम्। ऐहिकानां स्रक्चन्दनवनितादिविषयभोगानां कर्मजन्यतया ऽनित्यत्ववदामुष्मिकाणामप्यमृतादिविषयभोगानामनित्यतया


कृतदुष्कृतपरम् । तेन नितान्तनिर्मलस्वान्तः । नितान्तमत्यन्तं निर्मलं स्वच्छं स्वान्तमन्तःकरणं यस्य स तथोक्तो वक्ष्यमाणसाधनचतुष्टयसम्पन्नः प्रमाता । अन्तःकरणे प्रतिबिम्बितं चैतन्यमित्यर्थः । एतदेव स्पष्टं व्याकरोति काम्यानीत्यादिना । तत्र शमं लक्षयति शमस्तावदिति । यथा तीव्रायां बुभुक्षायां भोजनान्यो व्यापारो मनसो न रोचते भोजने विलम्बं च न सहते तथा स्रक्चन्दनादिविषयेष्वत्यन्तमरुचिस्तत्वज्ञानसाधनेषु श्रवणमन नादिष्वत्यन्तमभिरुचिर्जायते । तदा पूर्ववासनाबलाच्छ्रवणादिसाधनेभ्य


1. ABDUL . prefix कृच्छू . 2. Bih. 4. 4. 22. 3. M{re ti. 104; BDGE. add the other half of the line. 4. So ABCBIN. JKL; but Ramatirtha, with DGE, excludes प्रायश्चित्त as having no other known result than that of the removal of guilt. 5. Brih. 1. 5. 16. 6. ‘सम्पत्' AD. 7. ‘त्वादीनि AC. 8. अनि त्यत्वात् BCGJ.