पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ४]
5
सुबोधिनीसहितः

तेभ्यो नितरां विरतिरिहामुत्रार्थफलभोगविरागः। शमादयस्तु शमदमोपरतितितिक्षासमाधानश्रद्धाख्याः । शमस्तावच्छूवणा दिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः। दमो बाह्येन्द्रियाणां तद्यतिरिक्तविषयेभ्यो निवर्तनम् । निवर्तितानामेतेषां तच्च तिरिक्तविषयेभ्य उपरमणमुपरतिरथचा विहितानां कर्मणां विधिना परित्यागः । तितिक्षा शीतोष्णादिद्वन्द्वसहिष्णुता । निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम् । गुरूपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा । मुमु क्षुत्वं मोक्षेच्छा । एवम्भूतः प्रमाताधिकारी "शान्तो दान्त" इत्यादिश्रुतेः । ॐक्तं च


उड़ीय स्रक्चन्दनादिविषयेषु गम्यमानं मनो येनान्तःकरणवृत्तिविशेषेण निगह्य ते स वृत्तिविशेषः शम इत्यर्थः । इदानीं दमस्य लक्षणमाह दम इत्यादि । ज्ञानसाधनश्रवणादिसाधनेभ्यो विलक्षणेषु शब्दादिविषयेषु प्रवर्तमानानि श्रोत्रादीनि बाणेन्द्रियाणि येन वृत्तिविशेषेण निवर्त्यन्ते स दम इत्यर्थः । इदानीमुपरतेर्लक्षणमाह निवर्तितानामिति । निगृहीतानामेव तेषां बाह्ये- न्द्रियाणां श्रवणादिसाधनव्यतिरिक्तेषु शब्दादिविषयेषु यथा तानीन्द्रि याणि सर्वथा न गच्छन्ति तथा तेषां निग्रहो येन वृत्तिविशेषेण क्रियते सोपरतिरित्यर्थः । उपरतेर्लक्षणान्तरमाह अथवा विहितानामिति । विहि तानां नित्यादिकर्मणां विधिना चतुर्थाश्रमस्वीकारेण परित्यागः । नाहं कर्ते त्यवस्थानमुपरतिरित्यर्थः । तितिक्षाया लक्षणमाह तितिक्षेति । शरीरधर्मस्य शीतोष्णादेस्तज्जन्यसुखदुःखादेश्च शरीरस्य त्यक्तुमशक्यत्वात्स्वप्रकाशचिद्रूपे स्वात्मनि च शीतोष्णादेरत्यन्ताभावादिति विवेकदीपेन मिथ्याभूतस्य शीतो ष्णादेर्द्वन्द्वस्य यस्सहनं सा तितिक्षेत्यर्थः । इदानीं समाधानलक्षणमाह निगृहीतस्येति । शब्दादि विषयेभ्यो निगृहीतस्यान्तःकरणस्य श्रवणादौ तद् नुगुणेषु तदुपकारकेष्वमानित्वादिसाधनविषयेषु समाधिनैरन्तर्येण तच्चिन्तनं समाधानमित्यर्थः । अत्राद्यः स्पष्टार्थाः। तथा च पूर्वोक्तसकलविशेषणवि- शिष्टः प्रमाताधिकरीत्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति शान्त इत्यादि ।


1. See Notes. 2. Brih. 4. 4. 23. 3. Upodescader 32 'wi. 72 ).


१. ०भानस्य RTL.