पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
[खण्डः ४, ५
वेदान्तसारः

“'प्रशान्तचित्ताय जितेन्द्रियाय च
प्रहीणदोषाय यथोक्तकारिणे ।
गुणान्वितायानुगताय सर्वदा
प्रदेयमेतत्सततं मुमुक्षव” इति ।

 विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं तत्रैव वेदान्तानां तात्पर्यात् । सम्बन्धस्तु तदैक्यप्रमेयस्य तत्प्रतिपादकोपनिषत् प्रमाणस्य च बोध्यबोधकभावः । प्रयोजनं तु तदैक्यप्रमेयग ताज्ञाननिवृत्तिः खस्वरूपानन्दावाप्तिश्च "तरति शोकमात्मवित्" इत्यादिर्श्रुतेः ब्रह्मविद्ब्रह्मैव भवति” इत्यादिर्श्रुतेश्च ॥ ४ ॥

 अयमधिकारी जननमरणादिसंसारानलसन्तप्तो प्रदीप्तशिरा


यथोद्देशं विषयं निरूपयति विषय इति । अविद्याध्यारोपितसर्वज्ञत्वकिञ्चित्- ज्ञत्वादिविरुद्धधर्मपरित्यागेनावशिष्टं शुद्धं चैतन्यं ज्ञेयस्वरूपमेव सर्वेषां वेदान्तवाक्यानां विषय इत्यर्थः। क्रमप्राप्तं सम्बन्धं लक्षयति सम्बन्धस्त्विति । बोध्यबोधकभाव इति । बोध्यस्य ब्रह्मात्मैक्यस्वरूपस्य बोधकस्य वेदान्त शास्त्रस्य च बोध्यबोधकभाव एव सम्बन्ध इत्यर्थः । अवशिष्टं प्रयोजनमाह प्रयोजनं त्विति । ब्रह्मात्मैकत्वलक्षणचिन्मात्रगताज्ञानतत्कार्यसकलप्रपञ्चनि- वृत्तिः पुनरुत्पस्यभावरूपा स्वस्वरूपाखण्डानन्दप्राप्तिः फलमित्यर्थः । ननु लोकेऽप्राप्तस्य क्रियासाध्यस्य स्वर्गादेः पुरुषार्थत्वेन फलत्वं दृष्टमत्र तु नित्य प्राप्तस्यात्मस्वरूपस्य क्रियासाध्यस्वाभावेन पुरुषार्थस्वाभावात्कथं फलत्वमिति चेन्न तस्यैव पुरुषार्थत्वनियमाभावात् । यथा लोके कस्यचिद्विस्मृतकण्ठम- णेस्तत्युक्तशोकाग्निसन्दह्यमानस्याप्तोपदेशोत्तरकालं स्वकण्ठगतचामीकरप्रा- सेरपि पुरुषार्थत्वात्फलवं दृष्टमेवमत्रापि नित्यप्राप्तस्यात्मनोऽज्ञानमोहान्ध कारावृतत्वेन विस्मृतस्वस्वरूपस्य पुरुषस्य गुरुश्रुतिवाक्यश्रवणानन्तरमज्ज्ञान मोहान्धकारनिवृत्तौ सत्यां स्वयप्रकाशमानचिदुपस्य सिद्धस्यैवात्मनः फ़ल- त्वमुपचर्यत इति भावः । उक्तेऽर्थे श्रुतिं प्रमाणयति तरतीति ॥ ४ ॥

 अधुना शास्त्रारम्भनिमित्ताधिकार्यादिनिरूपणानन्तरं शास्त्रारम्भं प्रस्तौ स्यथवा लक्षितस्याधिकारिणः कर्तव्यं दर्शयति अयमधिकारीति । उक्कलक्षण

1. सकलं CEF, 2. C%%ळ. . 1.3. 3. 19¢. 3. 2. 9, modified,

१. See कण्ठचामीकरन्याय in Mozinox ii (2nd edn.).