वस्तु सच्चिदानन्दनन्ताद्वयं ब्रह्म । अज्ञानदिसकलजडसमू
होऽवस्तु । अज्ञानं तु सदसद्मानिर्वचनीयं त्रिगुणात्मकं
ज्ञानविरोधि भावरूपं यत्किञ्चिदिति वदन्त्यहमज्ञ इत्याद्यनु
भवात् "देवात्मशक्तिं खगुणैर्निगूढाम्’ इत्यादिर्श्रुतेश्च ।। ६ ।।
इदमज्ञानं समष्टिव्यष्ट्यभिप्रायेणैकमनेकमिति च व्यवहि यते । तथाहि । यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येकत्व
उक्तमर्थं दार्ष्टान्तिके योजयति वस्त्विति । कालत्रयानपाय्यात्मैव वस्तुश- ब्दार्थः । तत्रावस्तुस्वरूपमाह अज्ञानादीति । अज्ञानतज्जन्यव्योमादेर्मिथ्या त्वादृश्यत्वासावयवत्वाद्विकारित्वात्सापेक्षसिद्धिकत्वादित्यादिहेतुभिरवस्तुत्वमि त्यर्थः । एतदेव विस्तरेण प्रतिपादयितुमज्ञानस्वरूपं तावदाह अज्ञानं त्विति । किमिदमज्ञानं सदूपमसद्रूपं वा । नाद्यस्तस्य शशविषाणतुल्यत्वेन तुच्छ- त्वात् । नापि द्वितीयोऽसतः कारणसत्वानुपपत्तेरित्यादिहेतुभिः सत्त्वेनासत्त्वेन वा निरूपयितुं न शक्यत इत्याह अनिर्वचनीयमिति । नन्वज्ञानस्यानिर्वच नीयस्वे सर्वथा ज्ञातुमशक्यस्वात्तदभावप्रसङ्गमाशङ्कयाह त्रिगुणात्मकमिति । ‘‘अजामेक” इत्यादिश्रुतिभिः सत्वरजस्तमोगुणात्मकत्वप्रतिपादनादित्यर्थः । नन्वेवमजस्याज्ञानस्य श्रुतिप्रसिद्धस्य व्योमादिरूपेण विततस्य सत्यवद्भास मानस्वेन संसारानिवृत्तिमाशङ्कयाह ज्ञानविरोधीति । एतादृशमप्यज्ञानमा- त्मसाक्षात्कारेण निवर्तत इत्यर्थः । तदुक्तं भगवैता–‘दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” इति । ज्ञानाभाव एवाज्ञानमिति तार्किकमतं निराकरोति भावरूपमिति । त्रिगु णात्मकभावरूपत्वेऽपीदमित्यमेवेति पिण्डीकृत्य प्रदर्शयितुं न शक्यत इत्याह यत्किञ्चिदिति । किमप्यघटितघटनापटीय इत्यर्थः । अनिर्वचनीया नादिभावरूपाज्ञानसद्भावेऽनुभवमेवोदाहृत्य दर्शयति अहमज्ञ इति । अह मज्ञो मामहं न जानामीत्यपरोक्षावभास एव प्रमाणमित्यर्थः । तस्यैवोपष्ट-म्भकत्वेन श्रुतिमुदाहरति देवात्मशक्तिमिति ॥ ६ ॥
अज्ञानं विभजत इदमिति । वस्तुतोऽज्ञानस्यैकत्वेऽपि समष्ट्यभिप्रायेणैकमिति व्यवह्रियते व्यष्ट्यभिप्रायेणानेकमित्यर्थः । एतदेव प्रपञ्चयितुं प्रतिजानीते तथाहीति । यथा बहूनां वृक्षाणां समुदायविवक्षया वनमित्ये
1. ACCJ. omit अनन्त, 2. See Notes. 3. S°zeb. 1. 3.
१. Soet 4 5. २. Gya vii. 14