पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ९]
सुबोधिनीसहितः

व्यपदेशो यथा वा जलानां समष्ट्यभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभासमानानां जीवगताज्ञानानां समष्ट्य भिप्रायेण तदेकत्वव्यपदेशो ऽजामेकां’ इत्यादिश्रुतेः। इयं समष्टिरुत्कृष्टोपाधितया विशुद्धसत्वप्रधाना । एतदुपहितं चैतन्यं सर्वज्ञत्व सर्वेश्वरत्वसर्वनियन्तृत्वादिगुणकमव्य्क्तमन्त यामि जगत्कारणमीश्वर इति च व्यपदिश्यते सकलाज्ञानाव- भासकत्वात् । ‘यः सर्वज्ञः सर्ववित्” इति श्रुतेः ईश्वरस्येयं । समष्टिरखिलकारणत्वात्कारणशरीरमानन्दप्रचुरत्वात्कोशवदा- च्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात्सुषुप्तिरत एव


कत्वव्यपदेशो यथा वा बहुनद्यादिजलानां समुदायविवक्षया जलाशय इत्येकस्वव्यपदेशस्तथान्तःकरणोपाधिभेदेन नानात्वेन प्रतीयमानानां जीव गताज्ञानानां समुदायविवक्षयाज्ञानमित्येकत्वव्यपदेश इत्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति अजामिति । नानाजीवगतनिकृष्टान्तःकरणव्यष्ट्युपाध्यपे क्षया समष्ट्युपाधेरस्य वैलक्षण्यं दर्शयति इयं समष्टिरिति । विगतरागा दिदोषसकलकार्यप्रपञ्चस्य जगत्कारणभूतस्याज्ञानस्य समष्टिभूतोस्कृष्टोपाधि- स्वेन विशुद्धसत्वप्राधान्यमिति भावः । एतत्समष्ट्युपाधिद्वारेणेश्वरचैतन्यं लक्षयति एतद्रूपहितमिति । एतत्समष्ट्यज्ञानोपलक्षितं चैतन्यं सर्वस्य चरा चरात्मकप्रपञ्चस्य साक्षित्वेन सर्वज्ञ इत्युच्यते । सर्वेषां जीवानां कर्मानुरू पेप्सितफलदातृत्वेनेश्वर इत्युच्यते । तथा सर्वेषां जीवानामन्तर्हृदये स्थित्वा बुद्धिनियामकत्वेनान्तर्यामीत्युच्यते । सर्वस्य चराचराक्षत्मकप्रपञ्चस्य विवर्ता . धिष्ठानत्वेन जगत्कारणत्वमिति व्यपदिश्यत इत्यर्थः । उक्तेडर्थे युक्तिमाह सकलेति । अत्र प्रमाणमाह यः सर्वज्ञ इति । इदानीं तस्यैवेश्वरस्य समु दायोपाधिरेव कारणशरीरत्वमानन्दमयकोशत्वं सुषुप्त्यवस्थावैशिष्टयं च लभत इत्याह ईश्वरस्येति । कारणशरीरत्वे हेतुमाह अखिलेति । आनन्दमयत्वे हेतुमाह आनन्दप्रचुरत्वादिति । कारणत्वावस्थायां प्रकृतिपुरुषमात्रव्यतिरि क्तस्य स्थूलसूक्ष्मकार्यप्रपञ्चस्यैवाभावादानन्दबाहुल्यमिति । कोशत्वे युक्तिमाह आच्छादकत्वादिति । शरीराच्छादकचर्मवदात्माच्छादकत्वादज्ञानस्य कोश इति व्यवहार इत्यर्थः । ननु तथापि कारणत्वोपधेरज्ञानस्य सुषुप्तित्वं कुत


1. Soet. 4. 5. 2. See Notes. 3. ‘गुणकं सदध्य' DGE. 4. See Notes. 5. M{. 1. 1. 9.