सकत्वात् । अस्य प्राज्ञत्वमस्पष्टोपाधितयानतिप्रकाशकत्वात् अ स्यापीयमहङ्कारादिकारणत्वात्कारणशरीरमानन्दप्रचुरत्वात्को शवदाच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात्सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्चलयस्थानमिति चोच्यते ॥ ७ ॥
तदानीमेतावीश्वरप्राज्ञौ चैतन्यप्रदीप्ताभिरतिसूक्ष्माभिरज्ञान- वृत्तिभिरानन्दमनुभवत ‘‘आनन्दभुक् चेतोमुखः प्राज्ञ" इति
चैतन्यस्य प्राज्ञत्वं साधयति अस्य प्राज्ञत्वमिति । संस्काररूपास्पष्टोपाधि तया तदावृतत्वेनातिप्रकाशकत्वाभावात्प्राज्ञत्वमस्येत्यर्थः । यथा जगत्कार- णेश्वरोपाधेः कारणशरीरत्वमानन्दप्रचुरत्वेन चानन्दमयत्वं कोशदृष्टान्तेन च कोशत्वं तथैतत्सर्व तारतम्येन प्राज्ञचैतन्येऽप्यतिदिशति अहङ्कारादीति । प्रलयकाले हिरण्यगर्भादिप्रपञ्चोत्पादकेश्वरमूलप्रकृतिवत्सुषुप्तिकालेऽहङ्कारादि शरीरोत्पादकसंस्कारमात्रावशिष्टजीवगताज्ञानस्यापि कारणशरीरत्वमिन्द्रियत द्विषयाभावेन व्यासङ्गाभावानन्दबाहुल्यादानन्दमयत्वमात्माच्छादकत्वात्- कोशत्वं च युक्तमिति भावः । ननु स्थूलसूक्ष्मशरीरलयस्थानस्य कथं सुषुप्ति- शब्दवाच्यत्वमित्याशङ्का पूर्ववत्संज्ञाभेदो न वस्तुभेद इति वक्तुं तत्र युक्ति माह सर्वोपरमत्वादिति । पञ्चीकृतस्थूलशरीरस्य व्यावहारिकस्यापञ्चीकृतसू क्ष्मशरीरे प्रातिभासिके प्रविलापितत्वात्तस्यापि प्रातिभासिकस्य स्वाप्नप्रपञ्चस्य स्वकारणेऽज्ञाने लीनत्वात्सर्वोपरति रित्यर्थः । तथा चोक्तम्-“लये फेनस्य तद्धर्मा द्रवाद्याः स्युस्तरङ्गके । तस्यापि विलये नीरे तिष्ठन्त्येते यथा पुरा । व्यावहारिकजीवस्य लयः स्यात्प्रतिभासिके। तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणी”’ति ॥ ७ ॥
ननु प्रलयकाले सुषुप्तिकाले चान्तःकरणतद्रूप्यभावेनानन्दग्राहकाभा वादानन्दप्राचुर्यसद्भावे प्रमाणाभावमाशङ्कय परिहरति तदानीमिति । यथा स्वच्छत्वेनान्तःकरणस्य वृत्तिरङ्गीक्रियते तथा चैतन्यप्रदीप्ताज्ञानस्यापि सूक्ष्मा वृत्तयः स्वीक्रियन्ते । तथा चेश्वरः स्वकीयाज्ञानवृतिभिः स्वात्मानन्दबाहुल्यं तारतम्येनानुभवतीति भावः । अत्रैवोपष्टम्भकत्वेन श्रुतिमवतारयति आनन्द
1. reads " Ramatirtha प्रचुरत्वादेवः
१. Nagasudd%. 46, 4.