श्रुतेः सुखमहमखासं न किञ्चिदवेदिषमित्युत्थितस्य पराम र्शोपपत्तेश्च । अनयोः समष्टिव्यष्ट्योर्वनवृक्षयोरिव जलाशयज लयोरिव वाभेदः। एतदुपहितयोरीश्वरप्राज्ञयोरपि वनवृक्षाव च्छिन्नाकाशयोरिव जलाशयजलगतप्रतिबिम्बाकाशयोरिव चाभेद "एष सर्वेश्वर” इत्यादिश्रुतेः ॥ ८ ॥
वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाका शयोर्वाधारभूतानुपहिताकाशवदनयोरज्ञानतदुपहितचैतन्ययो- राधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमित्युच्यते. “शिवमद्वैतं
भुगिति । उत्तरकालीनसुखपरामर्शोपपत्तिरपि पूर्वानुभूतसुखबाहुल्यानु भवसद्भावे प्रमाणमित्याह सुखमिति । सुखमहमस्वाप्समित्यानन्दपरामर्शः । न किञ्चिदवेदिषमित्यज्ञानपरामर्शः। तथाच सुषुप्तिदशायां प्रलयकाले च प्राज्ञेश्वरावज्ञानवृत्तिभिरानन्दमनुभवत एवेत्यर्थः । इदानीमीश्वरगतमूलाज्ञा नस्य जीवगतसंस्कारमात्रावशिष्टाज्ञानस्य च समष्टिव्यष्ट्यभिप्रायेण भेदभा नेऽपि वस्तुभेदो नास्तीत्येतत्सदृष्टान्तमाह अनयोरिति । उक्तोपाधिद्वयद्वारे णेश्वरप्राज्ञयोरप्यभेदं दृष्टान्तमुखेन दर्शयति एतदुपहितयोरिति । ईश्वरस्य वनावच्छिन्नाकाशवत्प्राज्ञस्य वृक्षावच्छिन्नाकाशवच्च तथा स्थूलजलाशयोपाध्य् वच्छिन्नाकाशवत्तद्गतप्रतिबिम्बाकाशवच्च कारणोपाध्यवच्छिन्नेश्वरस्य कार्योपा ध्यवच्छिन्नप्राज्ञस्य च वस्तुतोऽभेद एवेत्यर्थः । तत्र प्रमाणमाह एष इति । तथा चोक्तमाचार्यैः-‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकार णतां हित्वा पूर्णबोधोऽवशिष्यत” इति ॥ ८ ॥
उपाधिद्वयावच्छिन्नौ प्राज्ञेश्वरौ सप्रपञ्चं निरूप्येदानीमनवच्छिन्नं तुर्यं यचै तन्यं तल्लक्षयति वनवृक्षेति । यथा स्थूलवनोपाध्यवच्छिन्नाकाशापेक्षया सूक्ष्मवृक्षोपाध्यवच्छिन्नाकाशापेक्षया च महाकाशस्य तदुभयाधारतयानव च्छिन्नत्वाच तुरीयत्वं तथा कार्यकारणोपाधितदवच्छिन्नचैतन्यद्वयापेक्षया तदाधारभूतं यदनवच्छिन्नं सर्वव्यापि चैतन्यं विशुद्धं तुरीयमुच्यत इत्यर्थः । 1. Madu. 5. 2. Mada. 6. 3. ‘जलगत' ABCERJK. 4. See Notes. १. So C. only; EGFJKIL. 'परामर्शानुप०'. २. Abhira- ea 61.