पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
[खण्डः १२
वेदान्तसारः

 तमःप्रधानविक्षेपशक्तिमदज्ञानोपहितचैतन्यादाकाश आका शाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी चोत्पद्यते “तस्माद्वा एत सादात्मन आकाशः सम्भूत" इत्यादिश्रुतेः । तेषु जाड्याधिक्य- दर्शनात्तमःप्राधान्यं तत्कारणस्य । तदानीं सत्त्वरजस्तमांसि कारणगुणप्रक्रमेण तेष्वाकाशादिषूत्पद्यन्ते । एतान्येव सूक्ष्म भूतानि तन्मात्राण्यपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्म शरीराणि स्थूलभूतानि चोत्पद्यन्ते ॥ १२ ॥


 इदानीं विक्षेपशक्तिकृत्यमाह तमःप्रधानेति। आकाशादेर्जडत्वात्तमोगुणप्रधा नविक्षेपशक्तियुक्ताज्ञानावच्छिन्नचैतन्यस्यैवाकाशादिप्रपञ्चजनकत्वमिति भावः । अस्मिन्नर्थे श्रुतिं प्रमाणयति एतस्मादिति । एतेनार्थात्सांख्यनैयायिकपक्षौ निरस्तौ । शक्तेरज्ञानस्य शक्तिमत्परतन्त्रत्वात् । स्वतन्त्रस्य तस्य केवलस्य जडस्याज्ञानस्य जगत्कारणत्वानुपपत्तेः । ‘ईक्षतेर्नाशब्दम्’ ’,‘‘रचनानुपपत्तेश्च नानुमानम् ’’ इत्यादिन्याय निरस्तत्वाच्च। परमाणोरप्युक्तदोषग्रासत्रासनपयात्। अभिन्न निमित्तोपादानप्रतिपादकश्रुतिस्मृतिन्यायविरोधाच्च। “यतो वा ईमानि भूतानि जायन्ते येन जातानि जीवन्ति यप्रयन्त्यभिसंविशन्ति' ’, ‘'सदेव सोम्येदमग्र आसीत्’, ‘‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च, ‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’ ’, ‘‘बीजं मां सर्वभूतानाम्' इत्यादिश्रुतिस्मृतिभिरीश्वरस्यैव जगत्कारणत्वप्रतिपादनात् । नन्वाकाशादिप्रपञ्चो त्पादकचैतन्यावच्छेदकाज्ञाने कुतस्तमःप्राधान्यमित्यशङ्कयाह तेषु जाड्येति । ‘कारणगुणा हि कार्यगुणानारभन्त” इति न्यायादिति भावः । ननु त्रिगुणात्म- कत्वादज्ञानस्य कथं तमोगुणमात्रप्राधान्येनाकाशादिजनकत्वमित्याशङ्क्याह तदानीमिति । तदानीमुत्पत्तिवेलायां सत्त्वादयस्त्रयोऽपि गुणास्तारतम्येन कारण- गुणप्रक्रमन्यायेन तेष्वाकाशादिषु पञ्चभूतेषूत्तरोत्तराधिक्येन जायन्त इत्यर्थः । इमान्येव सूक्ष्मशरीरादिकारणभूतान्यपञ्चीकृतानि सूक्ष्मरूपपञ्चभूततन्मात्राणी त्युच्यन्त इत्याह एतानीति । तदुक्तम्-‘पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वि 1. 'oj%, 2. 1. 1 १. See Notes. २. Bra%282%r» 1. 1. 5. ३. ८l¢12. 2. 2. 1. ३. ०. 3. 1. 1. ५. CAME6. 2. 1. ६. Murd. 2. 1. B. ७. GEd. x8८. Giavii. 10९. ¢ %c]has 'a (Benares, 1901 ) p. 11x. See Notes, १०. See Notes. ११. Sankara's Atmodha, 12.