पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
[खण्डः १३
वेदान्तसारः

मानत्वेनेहलोकपरलोकगामी व्यावहारिको जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति । कर्ण न्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि । एतानि पुनराका शादीनां रजोंशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते । वायवः प्राणापानव्यानोदानसमानाः । प्राणों नाम प्राग्ग मनवान्नासाग्रस्थानवर्ती । अपानो नामावाग्गमनवान्पाय्वा- दिस्थानवर्ती । व्यानो नाम विष्वग्गमनवानखिलशरीरवर्ती । उदानो नाम कण्ठस्थानीय ऊध्र्वगमनवानुत्क्रमणवायुः । समानो नाम शरीरमध्यगताशितपीतान्नादिसमीकरणकरः । केचित्तु नागकूर्मकृकलदेवदत्तधनञ्जयाख्याः पञ्चान्ये वायवः


जीवत्वं च लभत इत्यर्थः । मनोमयकोशं निरूपयति मनस्त्विति । सत्त्वगुण प्रधान मनः सत्वगुणांशेभ्यो जातं श्रोत्रादिज्ञानेन्द्रियैरेव सहितं सन्मनोमय कोश इत्यर्थः । अत्र तु मनसः सत्त्वोपह्रितरजोविकारेच्छारूपत्वात्सङ्कल्प- विकल्पात्मकत्वेन बुद्यपेक्षया जाड्याधिक्यान्मनोमयत्वमात्माच्छादकत्वात्को शस्वमिति भावः । कर्मेन्द्रियाण्युद्दिशति कर्मेन्द्रियाणीति । एतेषामुत्पत्तौ साधनपेक्षायामाह एतानीति । भूतानां त्रिगुणत्वेऽपि रजोगुणबहुलेभ्यो भूतेभ्यो वागादीनि पृथक्पृथक् क्रमेण जायन्ते । रजोगुणप्रधानाद्वाकाशा द्वागुत्पधते रजोगुणप्रधानाद्वायोः पाणीन्द्रियं रजोगुणप्रधानादग्नेः पादेन्द्रियं रजोगुणप्रधानाज्जलात्पाय्विन्द्रियं रजोगुणप्रधानायाः पृथिव्या गुह्येन्द्रियमु -त्पध्यत इत्यर्थः । वायूनुद्दिशति वायव इति । यथोद्देशं प्राणस्य लक्षणमाह

प्राणो नामेति । ऊध्र्वगमनशीलो नासाप्रस्थायी वायुः प्राण इत्यर्थः । अपानस्य लक्षणमाह अपानो नामेति । अधोगमनशीलः पाय्वादिस्थायी -वायुरपान इत्यर्थः । यानस्य लक्षणमाह व्यानो नामेति । सर्वनाडी- गमनशीलोऽखिलशरीरस्थायी वायुर्व्यान इत्यर्थः । उदानस्य लक्षणमाह उदानो नामेति । ऊर्ध्वमुत्क्रमणशीलः कण्ठस्थायी वायुरुदान इत्यर्थः । समानस्य लक्षणमाह समानो नामेति । शरीरमध्यगतान्नरसादिनेता वायुः समान इत्यर्थः । प्राणादीनां वायुत्वेन रूपेणैकस्वेऽपि क्रियाभेदेन भेद 1. See Notes. १. So all the Mss.; but the Calcutta edition वागादिकमें