पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः १३, १४]
१९
सुबोधिनीसहितः

सन्तीति वदन्ति । तत्र नाग उद्गिरणकरः। कूर्म उन्मीलन करः । कृकलः क्षुत्करः । देवदत्तो जृम्भणकरः । धनञ्जयः। पोषणकरः । एतेषां प्राणादिष्वन्तर्भावात्प्राणादयः पञ्चैवेति केचित् । एतत्प्राणादिपञ्चकमाकाशादिगतरजोंशेभ्यो मिलि- तेभ्य उत्पद्यते । इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्प्राण मयकोशो भवति । अस्य क्रियात्मकत्वेन रजोंशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः। मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः क्रियाशक्ति मान् कार्यरूपः । योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति । एतत्कोशत्रयं मिलितं सत्सूक्ष्मशरीरमित्युच्यते ॥ १३ ॥

 अत्राप्यखिलसूक्ष्मशरीरमेकबुद्धिविषयतया वनवज्जलाशय-


 इत्यर्थः । कापिलमतानुसारिणः क्रियाभेदेनान्येऽपि पञ्च वायवः सन्तीति वदन्तीत्याह केचित्विति । तान्येव नामानि निर्दिशति नाग इत्यादि । तथा चोक्तम्—‘उद्भारे नाग आख्यातः कूर्म उन्मीलने स्मृतः । कृकलस्तु क्षुति ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृतं चापि सर्वव्यापी धनंजय” इति । वेदान्तिनस्तु नागादीनां प्राणादिष्वन्तर्भावं वदन्तीत्याह एतेपामिति । प्राणा देवयूनामुत्पतौ कारणापेक्षायामाह एतत्प्राणादीति । अपञ्चीकृतपञ्चमहा- भूतेभ्यो रजःप्रधानेभ्यः प्राणादयो जायन्त इत्यर्थः । एतेषां प्राणादीनां प्राण प्रचुरत्वाप्राणमयत्वमात्माच्छादकत्वात्कोशत्वं च भवतीत्याह इदं प्राणादीति । प्राणादीनां रजःप्रधानभूतकार्यत्वे निमित्तमाह अस्येति । प्राणादीनां क्रिया त्मकत्वाद्रजःकार्यत्वमित्यर्थः । एतेषु पञ्चसु कोशेषु मध्ये विज्ञानमयमनो मयप्राणमयकोशानां क्रमेण ज्ञानेच्छाक्रियाशक्तिभेदेन कर्तृकरणक्रियारूपत्वं दर्शयति एतेष्विति । तत्र हेतुमाह योग्यत्वादिति । इदमेव कोशत्रयं सूक्ष्मशरीरमिति व्यवह्रियत इत्याह एतत्कोशेति ॥ १३ ॥

 अस्य समष्टित्वे हेतुमाह अत्रापीति । एकबुद्धीति । चराचरप्राणि-

1. उदीर० CDEPHJK. १. Grosus'ataka 35, 36.