पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
[खण्डः १४
वेदान्तसारः

वद्वा समष्टिरनेकबुद्धिविषयतया वृक्षवज्जलवद्वा व्यष्टिरपि । भवति । एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः प्राण श्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहित त्वाच्च । अस्यैषा समष्टिः। स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वात्सूक्ष्म शरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽत एव स्थूलप्रपञ्चलयस्थानमिति चोच्यते । एतद्ध्यष्ट्युपहितं चैतन्यं तैजसो भवति तेजोमयान्तःकरणोपहितत्वात् । अस्यापीयं व्यष्टिः स्थूलशरीरापेक्षया सूक्ष्मत्वादिति हेतोरेव सूक्ष्मशरीरं विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽत एव स्थूल शरीरलयस्थानमिति चोच्यते । एतौ सूत्रात्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः "प्रविविक्तभुक्तैजस'


मात्रस्य यावन्त्यनन्तrनि सूक्ष्मशरीराणि तेषां सर्वेषां सूक्ष्मशरीराणां सूत्रात्मना हिरण्यगर्भाख्येन स्वीयैकबुद्या विषयीकृतत्वात्समष्टित्वमित्यर्थः । तत्र दृष्टान्त माह वनवदित्यादि । अस्यैव सूक्ष्मशरीरस्य व्यष्टित्वं दर्शयति अनेकेति । अनेकेषां जीवानां प्रत्येकं स्वस्व लिङ्गशरीरस्य स्वस्वबुद्धि विषयत्वेनानेकबुद्धिवि षयतया व्यष्टित्वमित्यर्थः । तत्र दृष्टान्तमाह वृक्षवदित्यादि । उक्त समष्ट्य वच्छिन्नचैतन्यस्य 'सूत्रास्मत्वादिसंज्ञां दर्शयति एतत्समष्टीति । तत्र हेतु माह सर्वत्रेति । हेवन्तरमाह ज्ञानेति । ज्ञानेच्छाक्रियाशक्तिमत्कोशत्रयो पाध्यवच्छिन्नत्वादियर्थः । विज्ञानमयादिकोशत्रयस्य सूक्ष्मशरीरतां दर्शयति अस्यैषेति । अस्य सूत्रात्मकहिरण्यगर्भाख्यस्य विज्ञानमयादिकोशत्रयं सूक्ष्मशरी- रमस्य स्थूलप्रपञ्चापेक्षया सूक्ष्मत्वादित्यर्थः । अस्यैव विज्ञानमयादिकोशत्रयस्य स्वमत्वे युक्तिमाह जाग्रदिति । विराड्रूपेणानुतस्थूलप्रपञ्चविषयकवा सना मयत्वात्स्वप्नत्वमस्येत्यर्थः । अत एवेति । यतः स्वप्नत्वं सूक्ष्मत्वं चात एव स्थूल प्रपञ्चलयस्थानमित्युच्यत इत्यर्थः । विज्ञानमयादिसमष्ट्युपाध्यवच्छिन्नचैत न्यस्य हिरण्यगर्भस्वं प्रतिपाद्येदानीं तद्यष्ट्युपलक्षितचैतन्यस्य तैजसत्वं निरू- पयति एतव्यष्टेति । व्यष्टिरूपं विज्ञानमयादिकोशत्रयं तैजसस्यापि सूक्ष्म- शरीरमिति दर्शयति अस्यापीति । सूक्ष्मशरीरत्वे हेतुमाह स्थूलेति । अस्यापि स्वप्नत्वे हेतुमाह जाग्रदिति । विश्वचैतन्येनानुभूतस्थूलशरीरविषयकवासना मयत्वात्स्वप्नत्वमित्यर्थः । अस्यैव सूक्ष्मशरीरस्य स्थूलशरीरलयस्थानत्वे युक्ति