पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः १४, १५]
२१
सुबोधिनीसहितः

इत्यादिश्रुतेः । अत्रापि समष्टिव्यष्ट्योस्तदुपहिसूत्रात्मतैजस योर्वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलवत्तद्गतप्रतिबि म्बाकाशवच्चाभेदः। एवं सूक्ष्मशरीरोत्पत्तिः । १४ ।।

 स्थूलभूतानि तु पञ्चीकृतानि । पञ्चीकरणं त्वाकाशादिप ञ्चस्वेकैकं द्विधा समं विभज्य तेषु दशसु भागेषु प्राथमिकान्पञ्च भागान्प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्णां भागानां स्वस्व द्वितीयार्धभागपरित्यागेन भागान्तरेषु संयोजनम् । तदुक्तम्


 माह अत एवेति । यथा पूर्वं प्राज्ञेश्वरावज्ञानवृत्तिभिः सुषुप्त्यवस्थायामा- नन्दमनुभवतस्तथा हिरण्यगर्भतैजसावपि स्वप्नावस्थायां मनोवृतिभिर्वासनाम यान् शब्दादिविषयाननुभवत इति दर्शयति एताविति । अस्मिन्नर्थे श्रुतिमु दाहरति प्रविविक्तेति । इहापि विज्ञानमयादिकोशत्रयस्य समष्टिरूपस्य तद वच्छिन्नसूत्रात्मनश्च व्यष्टिरूपविज्ञानमयादिकोशत्रयस्य तदवच्छिन्नतैजस चैत- न्यस्य च वनवृक्षादितदवच्छिन्नाकाशादिदृष्टान्तमुखेनाभेदं दर्शयति अत्रा. पीति । समष्टिव्यष्ट्युपाध्योर्वनवृक्षवज्जलाशयजलवच्चाभेद उपाधिद्वयावच्छिन्न चैतन्ययोः सूत्रात्मतैजसयोरपि वनवृक्षावच्छिन्नाकाशवज्जलाशयजलगतप्रति बिम्बाकाशवच्चाभेद इत्यर्थः । सूक्ष्मशरीरोत्पत्तिप्रकरणमुपसंहरति एवं सूक्ष्मेति ॥ १४ ॥

 अथेदानीं स्थूलशरीरोत्पत्तिं निरूपयितुमुपक्रमते स्थूलेति । तुशब्दः पूर्व स्माद्वैषम्यं द्योतयति पञ्चीकृतानीति । अपञ्चीकृतसूक्ष्म भूतापेक्षया स्थूल भूतानि पञ्चीकृतानीत्यर्थः । पञ्चीकरणमेव प्रतिपादयितुं प्रतिजानीते पञ्ची- करणं त्विति । पच्चीकरणप्रकारमेवाह आकाशेति । अयमर्थः। सृष्टिकाले सकलप्राण्यदृष्टवशादीश्वरप्रेरणयाकाशवायुतेजोबलान्यविद्यासहायभूतात्परमा त्मनः सकाशादनुक्रमजातानि तान्यपञ्चीकृतानि सूक्ष्माणि व्यवहारासमर्था नीति कृत्वा तदीयस्थौल्यापेक्षायां व्यवहर्तुप्राणिजातधर्माधर्मापेक्षयैव तान्येव भूतानि पञ्चीकृतानि भवन्ति । तानि च प्रत्येकं द्वैविध्यमपद्यन्ते । तेष्वा काश। दिषु दशसु भागेषु प्राथमिकान्पञ्चभागान्प्रत्येकं चतुर्धा समं विभज्य स्वार्धपरित्यागेन चतुर्णां प्रत्येकं भागान्तरेषु सन्निवेशेन पञ्चीकृतानि स्थूलानि

1. Mizo. 3. 2. P¢zchaळds / i. 27.