पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
[खण्डः १५, १६
वेदान्तसारः

"द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः।
स्वेस्वेतरद्वितीयांशैर्योजनात्पञ्चपञ्च ते’ इति ॥

 अस्याप्रामाण्यं नाशङ्कनीयं त्रिवृत्करणश्रुतेः पञ्चीकरणस्या प्युपलक्षणत्वात् । पञ्चानां पञ्चात्मकत्वे समानेऽपि तेषु च "वैशेष्यात्तद्वादस्तद्वाद"इतिन्यायेनाकाशादिव्यपदेशः सम्भ वति । तदानीमाकाशे शब्दोऽभिव्यज्यते वायौ शब्दस्पर्शा वग्नों शब्दस्पर्शरूपाण्यप्सु शब्दस्पर्शरूपरसाः पृथिव्यां शब्द- स्पर्शरूपरसगन्धाश्च ॥ १५ ॥

 एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो भूर्भुवःस्वर्महर्जनस्तपः सत्यमित्येतन्नामकानामुपर्युपरिविद्यमानानामतलवितलसुतल- रसातलतलातलमहातलपातालनामकानामधोऽधोविद्यमानानां लोकानां ब्रह्माण्डस्य तदन्तर्वर्तिचतुर्विधस्थूलशरीराणां तदु चितानामन्नपानादीनां चोत्पत्तिर्भवति । चतुर्विधशरीराणि तु जरायुजाण्डजोद्भिजस्वेदजाख्यानि । जरायुजानि जरायुभ्यो


भवन्तीति । अस्मिन्नर्थे वृद्धसम्मतिमाह तदुक्तमिति । पच्चीकरणस्य त्रिवृत्क रणप्रतिपादकश्रुत्यन्तरविरोधमाशङ्क्य परिहरति अस्येति । भूतत्रयसृष्टिञ्श्रुतैौ सृष्टिपरिपूर्त्यर्थमन्यत्राश्रुतमपि भूतद्वयमाश्रित्य भूतपञ्चकाभिप्रायेण भूतत्रय सृष्टिप्रतिपादनादविरोध इत्यर्थः । आकाशादिपञ्चभूतेषु चतुर्धा विभक्ता- नामन्येषां पञ्चभूतानां प्रत्येकानुप्रवेशेन पञ्चीकृतानामाकाशादीनां पञ्चा त्मकत्वाविशेषादाकाशादिव्यपदेशो न स्यादित्याशङ्कय परिहरति प़ञ्चाना- मिति । आकाशादीनां पञ्चानां पञ्चात्मकत्वे समानेऽपि तेषु पञ्चभूतेषु तद्विशे पानुप्रवेशात्तन्नामभिर्युवहारः सम्भवतीत्यर्थः । तदानीमिति । यदा पञ्ची कृतान्याकाशादीनि तदानीं स्थूलत्वेन स्वस्वकार्योत्पादनसमर्थत्वादाकाशेऽ व्यक्तरूपेण स्थितः शब्दोऽभिव्यज्यते व्यक्तो भवतीत्यर्थः ॥ १५ ॥

 उक्तेभ्यो भूतेभ्यश्चतुर्दशभुवनोत्पत्तिप्रकारं दर्शयति एतेभ्य इति । ए तेभ्यो भूतेभ्यः समुत्पन्नब्रह्माण्डस्य चतुर्विधशरीराणां च तद्योग्यान्नपानादीनां 1. See Notes. 2. Brahmasutra. 2. 4. 22. १. F. only; CJ£Lread fत्र .