पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
[खण्डः १७, १८
वेदान्तसारः

दिग्वातार्कवरुणाश्विभिः क्रमानियत्रितेन श्रोत्रादीन्द्रियपञ्च- केन क्रमाच्छब्दस्पर्शरूपरसगन्धानग्नीन्द्रोपेन्द्रयमप्रजापतिभिः क्रमान्नियत्रितेन वागादीन्द्रियपञ्चकेन क्रमाद्वचनादानगमन विसर्गानन्दांश्चन्द्रचतुर्मुखशङ्कराच्युतैः क्रमान्नियत्रितेन मनो- बुद्ध्यहङ्कारचित्ताख्येनान्तरिन्द्रियचतुष्केण क्रमात्सङ्कल्पनिश्च- याहङ्कार्यचैत्तांश्च सर्वानेतान् स्थूलविषयाननुभवतो "जागरित- स्थानो बहिःप्रज्ञ" इत्यादिश्रुतेः । अत्राप्यनयोः स्थूलव्यष्टि- समष्टयोस्तदुपहितविश्ववैश्वानरयोश्च वनवृक्षवत्तदवच्छिन्नाकाश- वच जलाशयजलवत्तद्गतप्रतिविम्बाकाशवच्च पूर्ववदभेदः । एवं पञ्चीकृतपञ्चभूतेभ्यः स्थूलप्रपश्चोत्पत्तिः॥ १७ ॥

 एतेषां स्थूलसूक्ष्मकारणप्रपञ्चानामपि समष्टिरेको महान्प्र-


र्विधशरीराणां या व्यष्टिस्तत्तच्छरीरव्यक्तिस्तदुपहितं चैतन्यं विश्व इत्युच्यत इत्यर्थः । तत्र हेतुमाह सूक्ष्मेति । सूक्ष्मलिङ्गशरीराभिमानमपरित्यज्य स्थूल- शरीरेपु प्रविश्य तत्तत्स्थूलशरीरेषु सर्वेषु प्रत्येकमहमहमित्यभिमानवत्वा- द्विश्वत्वमित्यर्थः । अस्यापीति । अस्य चैतन्यस्याप्येषा तत्तच्छरीरव्यक्तिविशेष- लक्षणा व्यष्टिः सैव स्थूलशरीरमित्यर्थः । अत्राप्यन्नविकारबाहुल्यादन्नमयत्वं चैतन्याच्छादकत्वात्कोशत्वमिन्द्रियैरोंपलम्माजाग्रत्त्वं च क्रमेण दर्शयति अन्नविकारेति । अधुना जाग्रदवस्थायां विश्ववैश्वानरयोस्तत्तद्देवताधिष्ठितश्रो- त्रादिभिश्चतुर्दशभिः करणैः शब्दादिविषयग्रहणप्रकारं दर्शयति तदानी मेता- विति । अस्मिन्नर्थे श्रुतिं संवादयति जागरितेति । अनयोर्विश्ववैश्वानरयोर्वन- वृक्षावच्छिन्नाकाशदृष्टान्तेन जलाशयजलगतप्रतिबिम्बाकाशदृष्टान्तेन च पूर्व- वदभेदं साधयति अत्राप्यनयोरिति । स्थूलप्रपञ्चोत्पत्तिमुपसंहरति एवं पञ्ची- कृतेति ॥ १७ ॥

 स्थूलसूक्ष्मकारणप्रपञ्चानां व्यष्टिभूतानां प्रत्येक विवक्षयावान्तरप्रपञ्चवम- भिधायेदानीं तेषां समष्टेरेव महाप्रपञ्चत्वं दर्शयति एतेषामिति । तत्र दृष्टा-

1.Seo Notes. Mandi.3. १. CF. only; EJ KL. 'नं परि०, Rima tirtha adopts the for nier.