पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः १८, १९]
२५
सुबोधिनीसहितः

पञ्चो भवति यथावान्तरवनानां समष्टिरेकं महद्वनं भवति यथा वावान्तरजलाशयानां समष्टिरेको महान् जलाशयः। एतदु- पहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यमप्ययान्तरवनावच्छिन्न- काशवदयान्तरजलाशयगतप्रतिबिम्बाकाशवच्चैकमेव । आभ्यां महाप्रपञ्चतदुपहितचैतन्याभ्यां तप्तायःपिण्डवदविविक्तं सद नुपहितं चैतन्यं “सर्वं खल्विदं ब्रह्म” इति वाक्यस्य वाच्यं भवति विविक्तं सल्लक्ष्यमपि भवति । एवं वस्तुन्यवस्त्वारोपो ऽध्यरोपः सामान्येन प्रदर्शितः ॥ १८॥

 इदानीं प्रत्यगात्मनीदमिदमयमयमारोपयतीति विशेषत उच्यते । अतिप्राकृतस्तु आत्मा वै जायते पुत्र” इत्याँदि


 न्तमाह यथावान्तरेति । यथा धवखदिरपलाशद्यवान्तरवनानां समष्टिः समुदायविवक्षयैकं महद्वनं भवति यथा च वापीकूपतडागाथवान्तरजलाश- यानां समुदायविवक्षयैको महान् जलाशयो भवति तथा स्थूलसूक्ष्मकार णावान्तरप्रपञ्चानां समुदाय एको महान्प्रपञ्चो भवतीत्यर्थः । एतदेवावा न्तरमहाप्रपञ्चोपहितानां विश्वतैजसप्राज्ञानां वैश्वानरहिरण्यगर्भाव्याकृतानां चावान्तरवनावच्छिन्नाकाशवदवान्तरजलाशयगतप्रतिबिम्बाकाशवच्चाभेद इ- त्याह एतदुपहितमिति । चैतन्यप्रपञ्चयोर्भेदे ‘‘सर्वं खल्विदं ब्रह्म” इति श्रुत्या विरोधमाशङ्क्य परिहरति आभ्यामिति । उक्तमहत्प्रपञ्चतदवच्छिन्नचैतन्याभ्यां तप्तायःपिण्डवदन्योन्यतादात्म्याध्यासापन्नं यद्वस्तु श्रुतं तदवच्छिनं चैतन्यं सर्वं खल्विदं ब्रह्मति वाक्यस्य वाच्यं भवत्यन्योन्यतादात्म्याध्यासेन विविक्तं सल्लक्ष्यं भवतीत्यर्थः । अध्यारोपप्रकरणमुपसंहरति एवं वस्तुनीति ॥ १८ ॥

 ईश्वरचैतन्ये सामान्यतो महाप्रपञ्चाध्यारोपप्रकारं सप्रपञ्चमभिधायेदानीं अयगमने विशेषाध्यारोपप्रकारं दर्शयितुमुपक्रमते इदानीमित्यादिना । अध्यारोपमेवाह इदमिति । प्रत्यक्षादिसन्निहितस्य

1. ८. 3. 14. 1. 2. Not in BEFHJ K. 3. I cannot trauee (his. Ranatirtha, with D, rouds “आत्मा वै पुत्रनामासि” (८८sh. 2. 11.). १. त्यादरे वीप्स B. R.