पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
[खण्डः १९
वेदान्तसारः

श्रुतेः खस्मिन्निव स्वपुत्रेऽपि प्रेमदर्शनात्पुत्रे पुष्टे नष्टे चाहमेव पृष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्र आत्मेति वदति । चार्वाकस्तु ‘‘स वा एष पुरुषोऽन्नरसमय’ इत्यादिश्रुतेः प्रदीप्तगृहात्स्वपुत्रं परित्यज्यापि स्वस्य निर्गमदर्शनात्स्थूलोऽहं कृशोऽहमित्याद्यः नुभवाच्च स्थूलशरीरमात्मेति वदति । अपरश्चार्वाकः "ते ह प्राणाः प्रजापतिं पितरमेत्य ब्रूयुः" इत्यादिश्रुतेरिन्द्रियाणामभावे शरीरचलनाभावात्काणोऽहं बधिरोऽहमित्याद्यनुभवाच्चेन्द्रिया ण्यात्मेति वदति । अपरश्चार्वाकः ""अन्योऽन्तर आत्मा प्राण- मय" इत्यादिश्रुतेः प्राणाभाव इन्द्रियादिचलनायोगादहमश नायावानहं पिपासावानित्याद्यनुभवाच्च प्राण आत्मेति वदति । अन्यस्तु चार्वाकः ‘‘अन्योऽन्तर आत्मा मनोमय" इत्यादि- श्रुतेर्मनसि सुप्ते प्राणादेरभावादहं सङ्कल्पवानहं विकल्पवानि त्याद्यनुभवाच मन आत्मेति वदति । बौद्धस्तु "अन्योऽन्तर आत्मा विज्ञानमय’ इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्य


अत्र श्रुतिमाह आत्मेति । तत्र युक्तिमाह स्वस्मिन्निवेति । यथा स्वशरीरे प्रेमदर्शनादात्मत्वभ्रम एवं स्वपुत्रादिशरीरेऽपि प्रेमदर्शनादात्मत्वभ्रम इत्य र्थः । अत्रानुरूपमनुभवमाचष्टे पुत्र इति । एतदपेक्षया विशिष्टबुद्धिरन्यः कश्चिदधिकारी स्वदेहमेवात्मानं मन्यत इत्याह चार्वाक इति । अत्रापि श्रुति- माह स व इति । पुत्रादिशरीरस्यात्मत्वाभावे युक्तिं दर्शयन्पूर्वोक्ताधिकारिणः सकाशात्स्वस्य वैलक्षण्यं दर्शयति प्रदीप्तेति । देहस्यात्मत्वेऽनुभवं च प्रमा- णयति--स्थूलोऽहमिति । ततोऽप्युत्कृष्टः कोऽप्यधिकारी श्रुतियुक्त्यनुभवे भ्य इन्द्रियाण्यात्मेति वदतीत्याह अपर इति । ततोऽप्युत्तमोऽधिकारी कश्चि च्छुतिप्रमाणनुभवबलात्प्राण एवात्मेत्याह अपर इति । ततो विशिष्टोऽ धिकारी कश्चित्स्वमतानुकूलश्रुत्यादिबलान्मन एवात्मेत्याह अन्यस्त्विति । उक्तेभ्यः पञ्चभ्यो विलक्षणः कश्चिद्विज्ञानवादी श्रुत्यादिभिर्विज्ञानमात्मेत्याह

1. T०%, 2. 1. 1. Seo Note on Charvikas. 2. अपरश्चार्वाक- स्त्विह प्राणाः ACFJ K. 3. CMhz5. 1. P. 4. T¢z४. 2. 2. 1. 5. Ideon. 2. 3. 1. 6. Ider7, 2. 4. 1. See Note on Bauddhas.