पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः १९, २०]
२७
सुबोधिनीसहितः

भावादहं कर्ताहं भोक्तेत्याद्यनुभवाच्च बुद्धिरात्मेति वदति । प्राभाकरतार्किकौ तु "अन्योऽन्तर आत्मानन्दमय’ इत्यादि श्रुतेर्बुद्ध्यादीनामज्ञाने लयदर्शनादहमज्ञोऽहमज्ञाँनीत्याद्यनुभवा च्चाज्ञानमात्मेति वदतः। भाट्टस्तु f‘प्रज्ञानघन एवानन्दमय’ " इत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्भावान्मामहं न जाना मीत्याद्यनुभवाच्चाज्ञानोपहितं चैतन्यमात्मेति वदति । अपरो बौद्धः ‘असदेवेदमग्र आसीत्” इत्यादिश्रुतेः सुषुप्तौ सर्वाभा वादहं सुषुप्तौ नासमित्युत्थितस्य खभावपरामर्शविषयानुभ वाच शून्यमात्मेति वदति ॥ १९ ॥

 एतेषां पुत्रादीनामनात्मत्वमुच्यते । एतैरतिप्राकृतादिवा दिभिरुक्तेषु श्रुतियुक्त्यनुभवाभासेषु पूर्वपूर्वोक्तश्रुतियुक्त्यनु भवाभासानामुत्तरोत्तरश्रुतियुक्त्यनुभवाभासैरात्मत्वबाधदर्शना


बौद्धस्त्विति । उक्तेभ्योऽतिरिक्तौ प्राभाकरतार्किकौ स्वमतोपयोगिश्रुत्यादिबला दज्ञानमात्मेति वदत इत्याह प्रभाकरेति । अज्ञानावच्छिन्नं चैतन्यमात्मे त्याह प्रज्ञानघन इति । बौदैकदेशी कश्चिच्छ्रुत्यादिभिः शून्यमात्मेति वदति अपरो बौद्ध इति ॥ १९ ॥

 अधुना पुत्रादिशून्यपर्यन्तानामत्मत्वप्रतिपादकश्रुत्यादेराभासत्वात्पूर्वपूर्वम तस्योत्तरोत्तरमतबाध्यत्वाच्च दृश्यत्वजडत्वादिहेतुकदम्बकैश्चानात्मत्वं प्रसिद्धमे वेति प्रतिपादयितुं प्रतिजानीते एतेषामिति । पुत्राद्यात्मत्ववादिनामतिमन्दा- धिकारित्वात्तत्प्रतिपादितश्रुत्यादेरपि पूर्वपूर्वस्योत्तरोत्तरबाध्यस्वाच्च पुत्रादिशू न्यन्तानामनात्मत्वं प्रसिद्धमेवेति प्रतिज्ञातमेवार्थ प्रकटयति एतैरिति । ननु पुत्रादिशून्यपर्यन्तानामनात्मत्वे सिद्धे कस्तह्यहम्प्रत्ययविषय आमेत्या शङ्कयास्थूलादिनिषेधवाक्यजातबोधितं ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि वि धिवाक्यकोटि बोधितं यत्सत्यज्ञानानन्तानन्दाद्वयं ब्रह्म तदेवाहमालम्बनमिति

६ : 1. "r¥k. 2. 5. 1. 2. Thus eight Mss. ; but अहं ज्ञानी BGE. and lRamatirtha. 3. Mid. 5. 4. C%d. 6. 2. 1. 5. Some of the Miss. read पुत्रादीनां शून्यपर्यन्तानां. १. aik. 2. 1. 1.