पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः २०, २१]
२९
सुबोधिनीसहितः

युक्त्यनुभवाभासानां बाधितत्वादपि पुत्रादिशून्यपर्यन्तमखिल- मनात्मैव । अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यखभावं प्रत्यक्चैतन्यमेवात्मवस्त्विति वेदान्तविद्वदनुभवः । एवमध्या रोपः ॥ २० ॥

 अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद्वस्तु विव र्तस्यावस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् । तदुक्तम्--

‘सतत्त्वतोऽन्यथाप्रथा विकार इत्युदीरितः।
अतत्त्वतोऽन्यथाप्रथा विवर्त इत्युदीरित” इति ।


रुन्धतीप्रतिपादने तात्पर्यात् । तद्वदत्राप्यन्नमयः प्राणमयो मनोमयो विज्ञआ- नमय आनन्दमय आत्मा ‘‘ब्रह्म पुच्छं प्रतिष्ठा” इति पुच्छब्रह्मपर्यवसितानां पञ्चकोशवाक्यानामपि परस्परविरुद्धार्थप्रतिपादकत्वेऽपि प्रतिपत्तृबुद्ध्यनुसा- रेण सोपानक्रमवत्पूर्वपूर्वनिराकरणद्वारा परमसूक्ष्मपुच्छब्रह्मप्रतिपादने तात्प र्यात् । तस्मात्सर्वेषां वेदवाक्यानां साक्षात्परम्परया वाद्वितीयवस्तुप्रतिपादने तात्पर्यात्प्रामाण्यविरोध इति संक्षेपः । विशेषाध्यारोपप्रकरणमुपसंहरति एव मिति ॥ २० ॥

 आत्मवरतुनि मिथ्याप्रपञ्चस्य सामान्यतो विशेषतश्चाध्यारोपप्रकारं सप्र पञ्चमभिधायेदानीं तदपवादप्रकारं वस्तुमारभते अपवाद इति । असङ्गोदा- सीने परमस्मवस्तुनि तद्विवर्तभूताज्ञानादि मिथ्याप्रपञ्चस्य चिद्वस्तुमात्रावशेप तयावस्थानमेवापवाद इति वक्तुं प्रथमं लौकिकं दृष्टान्तमाह रज्जुविवर्तस्येति । रज्जुस्वरूपपरित्यागेन सर्पाकारेण भासमानस्य रज्जुविवर्तस्यापवादो नाशो नामाधिष्ठानरज्जुमात्रतयावस्थानवचिद्विवर्तस्याज्ञानादिप्रपञ्चस्य नाशो . नाम चिन्मात्रत्वेनावस्थानमित्यर्थः । अत्र यथास्वरूपेणावस्थितस्य वस्तुनोऽन्य थाभावो द्विधा भवति परिणामभावो विवर्तभावश्चेति । तत्र परिणामभावो नाम वस्तुनो यथार्थतः स्वस्वरूपं परित्यज्य स्वरूपान्तरापतिर्यथा दुग्ध मेव स्वस्वरूपं परित्यज्य दध्याकरेण परिणमते । विवर्तभावस्तु वस्तुनः स्वस्वरूपपरित्यागेन स्वरूपान्तरेण मिथ्याप्रतीतिर्यथा रज्जुः स्वस्वरूपापरि-

1. So ABIDE.K. ; 'तस्वमिति DGIT. 2. I cannot trade this quotation. It is not in EDGH. See Kalputapparimal, p. 248, lino 5, and Siddhiteclc', p. 10, lin७ 5. १. 'di८. 2. 5. 1. २. See Notes.