पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
[खण्डः २१, २२
वेदान्तसारः

 तथाहि । एतद्भोगायतनं चर्तुर्विधसकलस्थूलशरीरजातं भोग्यरूपान्नपानादिकमेतदायतनभूतभूरादिचतुर्दशभुवनान्ये तदायतंनभूतं ब्रह्माण्डं चैतत्सर्वमेतेषां कारणरूपं पञ्चीकृतभूत मात्रं भवति । एतानि शब्दादि विषयसहितानि पञ्चीकृतानि भूतानि सूक्ष्मशरीरजातं चैतत्सर्वमेतेषां कारणरूपापञ्चीकृत भूतमात्रं भवति । एतानि सत्वादिगुणसहितान्यपञ्चीकृतान्यु त्त्पत्तिव्युत्क्रमेणैतत्कारणभूताज्ञानोपहितचैतन्यमात्रं भवति । एतदज्ञानमज्ञानोपहितं चैतन्यं चेश्वरादिकमेतदाधारभूतानुप हितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति ॥ २१ ॥

 आभ्यामध्यारोपापवादाभ्यां तत्त्वम्पदार्थशोधनमपि सिद्धं


त्यागेन सर्पाकारेण मिथ्या प्रतिभासते । अत्र वेदान्ते ब्रह्मणि प्रपञ्चभानस्य परिणामभावो नाङ्गीक्रियते दुग्धादिवद्रह्मणो विकारित्वप्रसङ्गादनित्यत्वादिदोषा पत्तेः। विवर्तभावाङ्गीकारे तु नायं दोषो ब्रह्मणि प्रपञ्चभानस्य मिथ्यात्वेन विकारित्वाभावात् । तदुक्तम्-‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुन’ इति । तस्माच्चिद्विवर्तस्य प्रपञ्चस्य चिन्मात्रावस्थानमेवापवाद इति भावः । अस्मिन्नर्थे ग्रन्थान्तरसंवादं दर्शयति तदुक्तमिति । सामान्यतो दर्शिताम पवादप्रक्रियां विस्तरेण प्रतिपादयितुं प्रतिजानीते तथाहीति । स्थूलसूक्ष्मका रणप्रपञ्चानामुत्पत्तिवैपरीत्येन तत्तत्कारणरूपेणावस्थानमेवापवाद इत्याह एत. द्भोगायतनमिति । एतत्स्थूलशरीरं स्वाश्रयव्रह्माण्डसहितं स्वकारणभूतपञ्ची कृतेषु पञ्चमहाभूतेषु लीनं सत्तन्मात्रतयावतिष्ठते । तानि च पञ्चीकृतानि भूतानि-शब्दादिसहकृतानि सप्तदशावयवामकलिङ्गशरीराणि स्वकारणेष्वप- ञ्चीकृतभूतेषु लीनानि भवन्ति । तान्यपञ्चीकृतानि सत्त्वादिगुणसहितानि स्वकारणाज्ञानोपहितचैतन्ये लीनानि भवन्ति । तच्चाज्ञानं तदुपहितचैतन्यं सर्वज्ञत्वादिगुणविशिष्टं च स्वाधारभूतानुपहितचैतन्ये लीनं भवति । चैतन्य मेवावशिष्यत इत्यर्थः ॥ २१ ॥

 फलितमाह आभ्यामिति । तत्त्वम्पदार्थशोधनप्रकारं प्रतिजानीते तथा

b 1. चतुर्विधं HJL. 2. In all but AG. 3. आश्रय DGEL. आश्रय CDGHL १. Saasamake 4, 2. 8. See Notes.