पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
[खण्डः २३
वेदान्तसारः

‘‘सामानाधिकरण्यं च विशेषणविशेष्यता ।
लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम्” इति ॥

सामानाधिकरण्यसम्बन्धस्तावद्यथा सोऽयं देवदत्त इत्यस्मि न्वाक्ये तत्कालविशिष्टदेवदत्तवाचकसशब्दस्यैतत्कालविशिष्ट देवदत्तवाचकायंशब्दस्य चैकस्मिन्पिण्डे तात्पर्यसम्बन्धः । तथा च तत्त्वमसीति वाक्येऽपि परोक्षत्वादिविशिष्टचैतन्यवाचकतत्प-


त्याह इदमिति । सम्बन्धत्रयस्वरूपमाह सम्बन्धेति । पदार्थप्रत्यगात्मनां सम्बन्धत्रयसद्भावे वृद्धसम्मतिमाह तदुक्तमिति । पदयोः सामानाधिकरण्य मुदाहरणनिष्ठं कृत्वा प्रदर्शयति सामानाधिकरण्येति । भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे प्रवृत्तिः सामानाधिकरण्यम् । तच्च सोऽयं देवदत्त इति वाक्ये स इति तत्पदस्य तत्कालतद्देशवैशिष्ट्यं प्रवृत्तिनिमित्तम् । एतत्कालै तद्देशवैशिष्टयमयं शब्दस्य प्रवृत्तिनिमित्तम् । तथा च भिन्नप्रवृतिनिमित्तयोः सोयंशब्दयोरेकस्मिन्देवदत्तपिण्डे तात्पर्यसम्बन्धः सामानाधिकरण्यमित्यर्थः। उक्तमर्थं दार्ष्टान्तिके योजयति तथा चेति । तथा च तत्त्वमसीति वाक्येऽपि परोक्षत्वसर्वज्ञत्वादिवैशिष्टयं तत्पदप्रवृत्तिनिमित्तम् । अपरोक्षत्वकिञ्चिज्ज्ञत्वा दिवैशिष्ट्यं त्वम्पदप्रवृत्तिनिमित्तम् । तथा च भिन्नप्रवृत्ति निमित्तयोस्तत्त्व- म्पदयोरेकस्मिंश्चैतन्ये तात्पर्यसम्बन्धः सामानाधिकरण्यमित्यर्थः । विशेषण विशेष्यभावसम्बन्धस्वरूपमाह विशेषणेति । व्यावर्तकं विशेषणं व्यावर्यं वि शेष्यम् । तथा च सोऽयं देवदत्त इति वाक्य एवायंशब्दवाच्यो योऽसा- वेतेत्कालैतद्देशसम्बन्धविशिष्टो देवदत्तपिण्डोऽयं स इति तच्छब्दवाच्यात्त त्काललतद्देशविशिष्टदेवदत्तपिण्डाद्भिन्नो नेति यदा प्रतीयते तदा तच्छब्दार्थ स्यायंशब्दवाच्यार्थनिष्ठभेदव्यावर्तकतया विशेषणस्वमयंशब्दार्थस्य व्यावर्त्यत्वा द्विशेष्यत्वम् । तथा च स इति तच्छब्दवाच्यस्तत्कालतद्देशविशिष्टो देवदत्त- पिण्डः सोऽयमितीदंशब्दवाच्यादेतत्कालैतद्देशसम्बन्धविशिष्टादस्माद्देवदत्त- पिण्डान्न भिद्यत इति यदा प्रतीयते तदायंशब्दवाच्यस्य तच्छब्दार्थनिष्ठभे- दव्यावर्तकतया विशेषणत्वं तच्छब्दार्थस्य व्यावर्त्यत्वाद्विशेष्यत्वम् । तथा चायमेव स स एवायमित्यन्योन्यभेदव्यावर्तकतया सोऽयंशब्दर्थयोः परस्परं विशेषणविशेष्यभाव इत्यर्थः । उक्तं विशेषणविशेष्यभावं दार्ष्टान्तिके योज येति तथात्रापीति । इहापि तत्त्वमसिवाक्येऽपि त्वम्पदवाच्यं यदपरोक्षत्वं

१. CE. Omit प्र.