पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः २४, २५]
३५
सुबोधिनीसहितः

“संसर्गा वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः।
अखण्डैकरसत्वेन वाक्यार्थं विदुषां मत” इति ॥ २४ ॥

 अत्र गङ्गायां घोषः प्रतिवसतीतिवाक्यवज्जहल्लक्षणापि न सङ्गच्छते । तत्र तु गङ्गाघोषयोराधाराधेयभावलक्षणस्य वाक्या र्थस्याशेषतो विरुद्धत्वाद्वाक्यार्थमशेषतः परित्यज्य तत्सम्ब न्धितीरलक्षणाया युक्तत्वाज्जहल्लक्षणा सङ्गच्छते । अत्र तु परो क्षापरोक्षचैतन्यैकत्वलक्षणस्य वाक्यार्थस्य भागमात्रे विरोधाद्भागान्तरमपि परित्यज्यान्यलक्षणाया अयुक्तत्वाज्जहल्लक्षणा


 र्विशेषविशेष्यभावसंसर्गस्य नीलगुणविशिष्टोत्पलयोरैक्यस्य वाक्यार्थत्वाङ्गीकारे प्रत्यक्षादिप्रमाणान्तरविरोधाभावात्तत्र तथा सङ्गच्छत इति भावः । तत्त्वम सीतिवाक्ये तु तत्त्वम्पदार्थयोः सर्वज्ञत्वकिञ्चिज्ज्ञत्वादिविशिष्टयोः सर्वज्ञत्वादि विशिष्टेश्वरचैतन्यस्य किञ्चिज्ज्ञत्वादिविशिष्टजीवचैतन्यस्य वा तदुभयविशिष्ट चैतन्यस्य वा वाक्यार्थत्वाङ्गीकारे प्रत्यक्षादिप्रमाणान्तरविरोधात्पूर्वस्माद्वैषम्यं दर्शयति अत्र त्विति ॥ २४ ॥

 ननु तत्त्वमस्यादिवाक्यमखण्डार्थं कथं बोधयति जहल्लक्षणया वा किम जहल्लक्षणयाहोस्विज्जहदजहल्लक्षणयेति त्रिधा विकल्पः । आधे दूषणमाह अत्रेति । अत्र तत्त्वमसीतिवाक्ये जहल्लक्षणा न सङ्गच्छत इत्यन्वयः । तदेव दर्शयितुं जहल्लक्षणाया उदाहरणं तावदह गङ्गायामिति । ‘मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । मुख्यार्थेनाविनाभूते प्रवृत्तिर्लक्षणेष्यत’’ इति वैच नाद्ङ्गायां घोषवसनासम्भवाद्गङ्गायां घोष इति वाक्यस्य मुख्यार्थविरोधे सति मुख्यार्थं परित्यज्य लक्षणया वृत्त्या तत्सम्बन्धिनि तीरे घोषावस्थान प्रतिपादनात्तत्र जहल्लक्षणाङ्गीकारो युज्यत इत्याह तत्र त्विति । अrधारा धेयभावलक्षणं सर्वथा परित्यज्येत्यर्थः । तत्त्वमसीतिवाक्ये प्राक्प्रतिज्ञातं जहल्लक्षणासम्भवमाविष्करोति अत्र त्विति । तुशब्दः पूर्वस्माद्वैषम्यं द्योत- यति । तत्त्वमसीतिवाक्ये परोक्षापरोक्षचैतन्यैकत्वलक्षणस्य वाक्यार्थस्य विरो धाभावात्परोक्षत्वापरोक्षत्वप्रतिपादकत्वांशे विरोधाचैतन्यैकत्वे विरोधाभावा- द्गङ्गाघोषादिवाक्यवत्सर्वात्मना मुख्यार्थपरित्यागासम्भवाज्जहल्लक्षणा न सम्भ-

1. D. omits अपि and reads अपरि°, and so editions; but see Notes. १. So FJ.; but CKL, स्य- २. Y%guys, 49.