पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[खण्डः २५, २६
वेदान्तसारः

न सङ्गच्छते । न च गङ्गापदं खार्थपरित्यागेन तीरपदार्थ यथा लक्षयति तथा तत्पदं त्वम्पदं वा स्वार्थपरित्यागेन त्वम्पदार्थं तत्पदार्थं वा लक्षयत्वतः कुतो जहल्लक्षणा न सङ्गच्छत इति वाच्यम् । तत्र तीरपदाश्रवणेन तदर्थाप्रतीतौ लक्षणया तत्प्रतीत्यपेक्षायामपि तत्त्वम्पदयोः श्रूयमाणत्वेन तदर्थप्रतीतौ लक्षणया पुनरन्यतरपदेनान्यतरपदार्थप्रतीत्यपे- क्षाभावात् ॥ २५ ॥

 अत्र शोणो धावतीतिवाक्यवदजहल्लक्षणापि न सम्भवति । तत्र शोणगुणगमनलक्षणस्य वाक्यार्थस्य विरुद्धत्वात्तदपरि त्यागेन तदाश्रयाश्वादिलक्षणया तद्विरोधपरिहारसम्भवादज


 वतीत्यर्थः । तत्र हेतुमाह भागान्तरमपीति । विरुद्धयोः परोक्षस्वपरोक्षत्व- योरेकत्वासम्भवेन तत्परित्यागेऽपि चैतन्यभागस्यैकत्वे विरोधाभावात्त्यागो न युज्यत इत्यर्थः । ननु यथा गङ्गायां घोषः प्रतिवसतीतिवाक्ये गङ्गापदं प्रवाहलक्षणं स्वार्थ परित्यज्य स्वसम्बन्धितीरपदार्थं लक्षयति तथा तत्त्वम सीतिवाक्ये तत्पदं स्वार्थं परोक्षत्वादिविशिष्टं परित्यज्य जीवचैतन्यं लक्षय- त्वेवं त्वम्पदमपि स्वार्थं किञ्चिज्ज्ञत्वादिविशिष्टं परित्यज्येश्वरचैतन्यं वा लक्षयतु तस्माज्जहलक्षणैव भवत्वित्याशङ्कय निराकरोति न चेति । निराकरणप्रकारमे वाह तत्रेत्यादिना । श्रुतवाक्यस्य मुख्यार्थविरोधे मुख्यार्थसम्बन्धिन्यश्रुतपदार्थे लक्षणेति सर्वजनसिद्धम् । तथा च गङ्गायां घोष इत्यत्र श्रुतवाक्यार्थस्य गङ्गा घोषयोराधाराधेयभावसम्बन्धस्य विरोधे सति श्रूयमाणं गङ्गापदं स्वार्थपरि त्यागेन तीरपदार्थं लक्षयतीति युक्तं गङ्गापदार्थस्य तीरपदार्थप्रतीतिसापेक्ष त्वात् । इह तु श्रूयमाणतत्त्वम्पदयोर्मुख्यतयैव तदर्थसर्वज्ञत्वकिञ्चिज्ज्ञत्वा दिविशिष्टप्रतीतौ सत्यामपि लक्षणया तत्पदेन त्वम्पदार्थप्रतीत्यपेक्षभावात्त्व म्पदेन तदपदार्थप्रतीत्यपेक्षाभावाच्च मुख्यार्थे सम्भवति लक्षणाया अन्याय्य- स्वाज्जहल्छक्षणापि न सम्भवति ॥ २५ ॥

 अत्र शोण इति । अत्र तत्त्वमसीतिवाक्येऽजहल्लक्षणापि न सम्भवतीत्य न्वयः । कुत इत्यत आह तत्र शोणगुणेति । तत्र शोणो धावतीत्यादिवाक्ये शोणगुणस्य गमनासम्भवेन वाक्यस्य मुख्यार्थविरोधे सति श्रूयमाण शोणपदं स्वार्थापरित्यागेन स्वाश्रयमश्वादिकं लक्षयतीति युक्तम् । अत्र तु तत्त्वमस्या-

1. वाच्यार्थ० L., and editions.