पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः २६, २७]
३७
सुबोधिनीसहितः

हल्लक्षणां सम्भवति । अत्र तु परोक्षत्वापरोक्षत्वादिविशिष्टचै तन्यैकत्वस्य वाक्यार्थस्य विरुद्धत्वात्तदपरित्यागेन तत्सम्ब- न्धिनो यस्यकस्यचिदर्थस्य लक्षितत्वेऽपि तद्विरोधपरिहारासम्भ वादजहल्लक्षणा न सम्भवत्येव । न च तत्पदं त्वम्पदं वा खार्थविरुद्धांशपरित्यागेनांशान्तरसहितं त्वम्पदार्थं तत्पदार्थ वा लक्षयत्वतः कथं प्रकारान्तरेण भागलक्षणाङ्गीकरणमिति वाच्यम् । एकेन पदेन स्वार्थाशंपदार्थान्तरोभयलक्षणाया अस म्भवात्पदान्तरेण तदर्थप्रतीतौ लक्षणया पुनस्तत्प्रतीत्यपेक्षा भावाच्च ॥ २६ ॥

 तस्माद्यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा तत्कालै तत्कालविशिष्टदेवदत्तलक्षणस्य वाक्यार्थस्यांशे विरोधाद्विरुद्ध तत्कालैतत्कालविशिष्टत्वांशं परित्यज्याविरुद्धं देवदत्तांशमात्रं


दिवाक्ये तत्त्वम्पदार्थस्य परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य मुख्यवाक्यार्थस्य विरुद्धत्वापरोक्षत्वापरोक्षत्वापरित्यागेन तद्विशिष्टचैतन्यल क्षणार्थस्य लक्षितत्वेऽपि तद्विरोधपरिहाराभावादज्जहल्लक्षणा न सम्भवतीत्यर्थः। ननु तत्पदं स्वार्थं विरुद्धपरोक्षत्वादिधर्म परित्यज्याविरुद्धचैतन्यांशपरित्यागेन त्वम्पदार्थं किञ्चिज्ज्ञत्वादिविशिष्टं जीवचैतन्यं लक्षयतु त्वम्पदं वा स्वार्थं विरुद्धपरोक्षत्वादिधर्मं परित्यज्याविरुद्धचैतन्यांशापरित्यागेन तत्पदार्थं सर्व- ज्ञत्वादिविशिष्टमीश्वरचैतन्यं लक्षयतु किं भागलक्षणाङ्गीकारेणेत्याशङ्कय निरा. करोति न च तत्पदमिति । एकेन तत्पदेन त्वम्पदेन वा स्वार्थाशापरित्या गेन स्वार्थाशपदार्थान्तरोभयलक्षणाया असम्भवादित्यर्थः । अजहल्लक्षणा सम्भवे हेत्वन्तरमाह पदान्तरेणेति । तत्पदेन त्वम्पदेन वा तत्तदर्थप्रतीतौ सत्यां लक्षणया पुनरन्यतरस्यान्यतरप्रतीत्यपेक्षाभावादित्यर्थः ॥ २६ ॥

 अतः परिशेषात्तृतीयपक्ष एवाङ्गीकर्तव्य इत्युपसंहरति तस्मादिति । यस्मात्तत्वमस्यादिवाक्ये जहल्लक्षणाजहल्लक्षणयोरसम्भवस्तस्माज्जहदजहल्लक्ष णया विरुद्धांशं परित्यज्याविरुद्धखण्डचैतन्यमात्रं लक्षयतीति योजना । तत्र दृष्टान्तमाह यथेति । यथा सोऽयं देवदत्त इति वाक्ये प्रागुक्तजहल्लक्षणाजह

1. तद्विरोधापरिहारात् GHJL. and editions.