पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
[खण्डः २७, २८
वेदान्तसारः

लक्षयति तथा तत्त्वमसीतिवाक्यं तदर्थो वा परोक्षत्वापरोक्षत्त्वा दिविशिष्टचैतन्यैकत्वलक्षणस्य वाक्यार्थस्यांशे विरोधाद्विरुद्धपरो क्षत्वापरोक्षत्वादिविशिष्टत्वांशं परित्यज्याविरुद्धमखण्डचैतन्य मात्रं लक्षयतीति ॥ २७ ॥

 अथाधुनाहं ब्रह्मासीत्यनुभववाक्यार्थो वर्ण्यते । एवमा चार्येणाध्यारोपापवादपुरःसरं तत्त्वम्पदार्थौ शोधयित्वा वा क्येनाखण्डार्थेऽवबोधितेऽधिकारिणोऽहं नित्यशुद्धबुद्धमुक्तस ।


ल्लक्षणयोरसम्भवेन तदर्थस्य तत्कालतद्देशविशिष्टस्यैतत्कालैतदेशविशिष्टस्य देव- दत्तलक्षणवाक्यार्थस्यैकस्मिन्नंशे तत्कालैतत्कालवैशिष्टयभागे विरोधदर्शनात्त त्परित्यागेनाविरुद्धदेवदत्तपिण्डमात्रं लक्षयतीत्यर्थः। ‘भानान्तरविरोध’ इत्यु क्तन्यायेनेत्यर्थः । उक्तमर्थं दार्ष्टान्तिके योजयति तथेति । तथा तत्त्वमस्या दिवाक्यस्यापि परोक्षत्वापरोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणमुख्यार्थप्रतिपादक त्वासम्भवाजहदजहल्लक्षणया विरुद्ध परोक्षत्वापरोक्षत्वादिवैशिष्टयांशपरित्यागे नाविरुद्धखण्डचैतन्यमात्रप्रतिपादकत्वं तस्येत्यर्थः ॥ २७ ॥

 अखण्डचैतन्यप्रतिपादकस्य तत्त्वमसीतिवाक्यस्यार्थं सप्रपञ्चमभिधायेदानीं यजुर्वेदानुभववाक्यार्थो वर्ण्यत इत्याह अथाधुनेति । गुरुमुखाश्नवकृत्वस्तत्त्व मस्यादिवाक्यश्रवणाद्देहाद्यहङ्कारान्तजडपदार्थसकलदृश्यविलक्षणप्रत्यगात्मनः- शुद्धेन परमात्मना सहैकवबोधानन्तरं कश्चिदधिकारी लब्धावसरं सर्वो पाधिविनिर्मुक्तं सच्चिदानन्दैकरसमनुभवेन जिज्ञासुराचार्योपदिष्टमहं ब्रह्मा स्मीति वाक्यार्थमनुस्मरन् स्वमानन्दमनुभवतीत्यर्थः । तत्प्रकारमेवाह एव मित्यादिना । एवं संक्षेपेण वक्ष्यमाणप्रकारेणाधिकारिणश्चित्तवृत्तिरुदेतीति सम्बन्धः । कदेत्यपेक्षायामाह आचार्येणेति । आचार्येणाविषयेऽसङ्गे निष्कल चैतन्ये शशश्वङ्गयमानाविद्ययाहङ्कारादिशरीरान्तमिथ्यापदर्थमध्यारोपतदप- -वादपुरःसरं तत्त्वम्पदार्थौ शोधयित्वा तत्त्वमसीतिवाक्येन जहदजहल्क्षणया विरुद्धांशपरित्यागेनाखण्डार्थचैतन्ये ज्ञाते सतीत्यर्थः । किंविषयिणी वित्त- -वृत्तिरुदेतीत्यसत्त्वशङ्कां निवारयति अहमिति । अहं प्रत्यगात्मा परं ब्रह्मा स्मीत्यन्वयः । ब्रह्मानित्यत्वशङ्कां निराकरोति नित्येति । शुद्धपदेनाविद्यादि

1. Brk. 1. 4. 10. १. See page 35. २. यजुर्वेयनु° Cale , edition,