पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
[खण्डः २८, २९
वेदान्तसारः

चैतन्यमपि यथा दीपप्रभादित्यप्रभावभासनासमर्था सती तयाभिभूता भवति तथा .स्वयम्प्रकाशमानप्रत्यगभिन्नपरब्रह्मा वभासनानर्हतया तेनाभिभूतं सत्स्वोपाधिभूताखण्डचित्तवृत्ते- र्बाधितत्वाद्दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रत्ववत्प्रत्यगभि न्नपरब्रह्ममात्रं भवति ॥ २८॥ ।

 एवं च सति "मनसैवानुद्रष्टव्यं’ , "‘यन्मनसा न मनुत ”


नित्यशुद्धबुद्धमुक्तसत्यस्वभावपरमानन्दानन्ताद्वयाखण्डब्रह्मास्मीति चित्तवृत्तिरू दयमासादयति । तदानीमेव तस्याभिव्यक्ताखण्डचैतन्यबलेन तत्वपरिपीडिता ज्ञाननाशो भवति । तदानीं तत्कार्यस्य सर्वस्य नाशादभिव्यक्तिरपि स्वय मेव कतकरजोव द्दारूमथनजनिताग्निवदुदरस्थदुष्टजलशान्त्यर्थपीततप्तजलवच्च नष्टा भवति । तदानीं तद्गताभासोऽपि स्वोपाधिभूतचित्तवृत्तिनाशात्स्वप्र काशात्मावभासनासमर्थतया दर्पणविगमे तदुपाधिकस्य स्वाधिष्ठानमुखमा- न्नत्ववदधिष्ठानमात्रो भवतीति वेदान्तसिद्धान्तरहस्यमिति । अत्र तस्यानु भवः । ‘लोकाश्च भान्ति परमे मयि मोहजन्याः स्वप्नेन्द्रजालमरुनीर समा विचित्राः । व्युत्थानकाल इह न स्युरलं विशुद्धप्रत्यक्सुखाब्धिपरमा- मृतचित्तवृत्तौ ॥ मत्तः परं न खलु विश्वमथापि भाति मध्ये च पूर्वमपरं नरश्रृङ्गतुल्यम् । मायोत्थशास्त्रगुरूवाक्यसमुत्यबोधभानुप्रभाविलासते क्व गतं न जाने ॥ निरतिशयसुखाब्धिस्वप्रकाशे परेऽस्मिन्कथमिदमविवेकादुत्थितं स्रक्फणीव । क्व नु गतमधुना तद्देशिको वा श्रुतिर्वा परमविमलबोधेऽभ्यु त्त्थितेऽहं न जाने’ इति । तदेतत्सर्वं मनसि निधायोपसंहरति प्रत्यगभि न्नेति ॥ २८ ॥

 ननु ‘‘मनसैवानुद्रष्टव्यम्’,मनसैवेदमाप्प्तव्यम्,दृश्यतेत्वग्र्यया बुध्द्या सूक्ष्मया सूक्ष्मदर्शिभिः”, “‘बुद्ध्यालोकनसाध्येऽस्मिन्वस्तुन्यस्तमिता यदि, ‘बृद्धियोगमुपाश्रित्य मच्चित्तः सततं भव” इत्यादिश्रुतिस्मृतीनां ‘र्यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। , ‘‘यन्मनसा न मनुते’ ,

1. Bih. 4. 4. 19. 2. Repub 1. 5. १. See जलकतकरेणुन्याय in Macinds i (2nd edn. ). २. U - traceable. ३. So KL,; मति EFJ.; C. corrupt. ४. Kc¢¢4. 1. ५. Item. 3. 12. ६. Gad xvi. 5. ७. T¢छेk. 2. १. 1.