पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः २९]
४१
सुबोधिनीसहितः

इत्यनयोः श्रुत्योरविरोधो वृत्तिव्याप्यत्वाङ्गीकारेण फलव्याप्य त्वप्रतिषेधप्रतिपादनात् । तदुक्तम् –

‘फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् ।
ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता"’ इति ।

“स्वयम्प्रकाशमानत्वाभास उपयुज्यते” इति च । जडपदार्थाकाराकारितचित्तवृत्तेर्विशेषोऽस्ति । तथाहि । अयं घट इति घटाकाराकारितचित्तवृत्तिरज्ञातं घटं विषयीकृत्य


‘अन्यदेव तद्विदितादथो अविदितादधि, ‘‘अविज्ञातं विजानतां विज्ञात मविजानताम्”, “अनाशिनोऽप्रमेयस्य ’, ‘यद्विज्ञातं स्वयं विप्र यन्न विज्ञा- तमात्मना । ताभ्यामन्यस्परं विप्र यद्वेद्यं विद्धि तज्जडम्” इत्यादिश्रुति स्मृतीनां च परस्परविरोधमाशङ्कय परिहरति एवं च सतीति । एवमुक्तप्रकारे- णाज्ञातचैतन्यस्य वृत्तिव्याप्यत्वाङ्गीकारेण फलव्याप्यत्वे प्रतिषिद्धे सतीत्यर्थः । तदेवाह वृत्तिव्याप्यत्वेति । अन्तःकरणवृत्तिरावरणनिवृत्यर्थमज्ञानावच्छिन्नं चैतन्यं व्याप्नोतीत्येतद्वृतिव्याप्यत्वमङ्गीक्रियते । आवरणभङ्गानन्तरं स्वय म्प्रकाशमानं चैतन्यं फलचैतन्यमित्युच्यते तस्मिन्फलचैतन्ये निष्कलङ्के चित्त वृत्तिर्न व्याप्नोत्यावरणभङ्गस्य प्रागेव जातत्वेन प्रयोजनाभावादित्यर्थः । अस्मिन्नर्थे ग्रन्थान्तरं संवादयति तदुक्तमिति । वृत्तिप्रतिबिम्बितचैतन्या भासस्यापि फलचैतन्यप्रकाशकत्वं नेत्यत्रापि सम्मतिमाह स्वयम्प्रकाशेति । इदानीं जडपदार्थविषयकचित्तवृत्तेर्ब्रह्माकारवृत्यपेक्षया वैलक्षण्यं दर्शयितुमाह जडपदार्थेति । अहं ब्रह्मास्मीत्यनावच्छिन्नब्रह्माकारा वृत्तिस्तदावरकमज्ञान मात्रं निवर्तयति ब्रह्म तु स्वप्रकाशात्मत्वात्वयमेव प्रकाशते । न तु वृत्ति प्रतिबिम्बितचिदाभासेन चैतन्यं प्रकाश्यते तत्र तस्यासामर्थ्यात् । अयं घट इति घटाकाराकारितचित्तवृत्तिस्तु घटावच्छिन्नचैतन्यावरकाज्ञानं निंव र्तयमाना स्वप्रतिबिम्बितचिदाभासेम जडं घटमपि प्रकाशयति । अतस्ततो विशेषोऽस्तीत्यर्थः । एतदेव प्रपञ्चयितुं प्रतिजानीते तथाहीति । जडपदार्थ

1. P¢chodds' vii. 90, 92. Line one is the second half ot yerse 90. There the reading of line three is स्वयंस्फुरणरूपत्वात् , १. Keold 1. 3. २. Iden11. ३. Go ii 1४. ४. Visig¢h¢ Linga Upparer pळ xi (Kaivalyearatna, p• 101)