पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[खण्डः २९, ३०
वेदान्तसारः

तद्गताज्ञाननिरसनपुरःसरं

“बुद्धितस्थचिदाभासौ द्वावेतौ व्याप्नुतो घटम् ।
तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत्" इति ।

यथा दीपप्रभामण्डलमन्धकारगतं घटपटादिकं विषयीकृत्य तद्ग तान्धकारनिरसनपुरःसरं स्वप्रभया तदपि भासयतीति ॥ २९ ॥

 एवंभूतस्वस्वरूपचैतन्यसाक्षात्कारपर्यन्तं श्रवणमनननिदि ध्यासनसमाध्यनुष्ठानस्यापेक्षितत्वात्तेऽपि प्रदर्श्यन्ते। श्रवणं नाम षड्विधलिङ्गैरशेषवेदान्तानामद्वितीये वस्तुनि तात्पर्याव-


विषयिणीं चित्तवृत्तिमभिनीय दर्शयति अयमिति । वृत्तिसम्बन्धप्राग्घट- स्याज्ञातत्वादज्ञातं घटं विषयीकृत्य प्रवृत्ता वित्तवृत्तिर्घटगताज्ञानं दूरी कुर्वाणा घटमपि भासयतीत्यर्थः । अस्मिन्नर्थे वृद्धसम्मतिमाह तदुक्तमिति । बुद्धिश्च तत्र बुद्धौ प्रतिबिम्बितचिदाभासश्च बुद्धितस्थचिदाभासौ द्वावेतौ बुद्धिचिदाभासौ घटं व्याप्नुतः । तत्र तयोर्मध्ये धिया वृत्या घटाज्ञानं नश्येच्चिदाभासेन तु घटः स्फुरेदित्यर्थः । अत्रानुरूपं दृष्टान्तमाह यथा दीपेति । यथान्धकारावस्थितं घटादिकं विषयीकृत्य प्रवर्तमानं दीपप्रभा मण्डलं घटावरकान्धकारनिवृत्तिद्वारा स्वप्रभया घटादिकं प्रकाशयति तद्व- दित्यर्थः ॥ २९ ॥

 इयता ग्रन्थजालेन प्रतिपादितस्य प्रत्यगभिन्नपरमानन्दाखण्डचैतन्यस्य साक्षात्कारलक्षणाम खण्डाकारान्तःकरणवृत्तिं प्रतिपिपादयिषुस्तत्साधनभूतञश्च- वणादेरवश्यानुष्ठेयत्वं तेषां लक्षणानि च क्रमेण दर्शयति एवम्भूतेत्यादिना उद्वैतं वस्तु भासत इत्यन्तेन । एवम्भूतस्योकश्रुतियुक्त्यनुभवैर्निरस्तसमस्तोपा- धिप्रत्यगभिन्नपरमानन्दचिदूपस्य साक्षात्कारपर्यन्तं श्रवणादीन्यनुष्ठेयानीति प्रतिजानीते तेऽपीति । श्रवणादयोऽपीत्यर्थः । तत्र श्रवणस्य लक्षणमाह षड्विघेेति । लीनमर्थं गमयतीति लिङ्गशब्दस्य व्युत्पत्तेर्बह्मात्मैकत्वनिश्चा यकैरुपक्रमोपसंहारादिषड्विधलिङ्गैः सर्वेषां वेदान्तवाक्यानामद्वितीये ब्रह्मणि

1. Paideicdos's vii. 91. 2. See an amusing passage in N¢g$cjare p. 552, lines 14 to 25. १. So K. only; लिन° छ.; नीत° CER.