पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ३०]
४३
सुबोधिनीसहितः

धारणम् । लिङ्गानि तूपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्त्याख्यानि । तत्र प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यन्तयोरुपपादनमुपक्रमोपसंहारौ । यथा छान्दोग्ये षष्ठाध्याये प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुन ‘एकमेवाद्वितीयं" इत्यादौ "ऐतदात्म्यमिदं सर्वं” इत्यन्ते च प्रतिपादनम् । प्रकरणप्रतिपाद्यस्य वस्तुनस्तन्मध्ये पौनःपुन्येन प्रतिपादनमभ्यासः। यथा तत्रैवाद्वितीयवस्तुनि मध्ये तत्त्वमसीति नवकृत्वः प्रतिपादनम् । प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनः प्रमाणान्तराविषयीकरणमपूर्वता । यथा तत्रैवाद्वितीयवस्तुनो मानान्तराविषयीकरणम् । फलं तु प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वा तत्र


तात्पर्यनिश्चयः श्रवणमित्यर्थः । तानि च लिङ्गानि क्रमेणोद्दिशति उपक्रमेति । तथा चोक्तम् । ‘‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णय” इति । उपक्रमोपसंहारौ तावद्दर्शयति तत्र प्रकरणप्रति पाद्यस्येति । तदुदाहृत्य दर्शयति यथेति । एकमेवाद्वितीयमित्युपक्रम्यैत दात्म्यमिदं सर्वमिति प्रतिपादनमुपक्रमोपसंहारावित्यर्थः। अभ्यासस्य लक्षणमाह पौनःपुन्येनेति । अत्रापि श्रुतिमुदाहरति यथेति । अपूर्वत्वस्य लक्षणमाह प्रमाणान्तरेति । ‘तं त्वौपनिषदं पुरुषं पृच्छामि” इत्यादिश्रुतिभि- रुपनिषन्मात्रवेद्यत्वप्रतिपादनाद्ब्रह्मणोऽपूर्वत्वमित्यर्थः । अथवा ब्रह्मणः स्वप्रका शत्वेन स्वव्यवहारिस्वातिरिक्तप्रमाणानपेक्षत्वाद्ब्रह्मणोऽपूर्वत्वमित्यर्थः । क्रमप्राप्तस्य फलस्य लक्षणमाह फलं त्विति । अत्रानुरूपमुदाहरणमाह आचार्यवानित्यादि । श्रवणादिसाधनानां ब्रह्मात्मैकत्वविज्ञानं प्रयोजनं ब्रह्मणः ज्ञानस्य तु तप्राप्तिः फलं "ब्रह्मविद्ब्रह्मैव भवति", "तरति शोकमात्मवित्’ ” इत्यादिश्रुतिभिरित्यर्थः । पञ्चमलिङ्गस्यार्थवादस्य लक्षणमाह प्रशंसनमिति । प्रकरणप्रतिपाद्याद्वितीयब्रह्मस्वरूपस्तावकवाक्यमर्थवाद इत्यर्थः । अत्रापि


1. चष्टे प्रपाठके DGE. 2. Chh. 6. 2. 1. 3. Iden 6. 8. 7. 4. वस्तुनःi in DH. only.


१. Quoted in the सर्वदर्शनसंग्रह (पूर्णप्रज्ञा-दर्शन) and ascribed to the बृहत्संहिता. See Notes. २. बृह. 3. 9. 26३. मुण्डक 3. 2. 9. Here the reading is ब्रह्म वेद ४. छान्दोग्य. 7.1. 3.