पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[खण्डः ३०
वेदान्तसारः

अलेपकं सर्वगतं यदद्वयं
तदेव चाहं सततं विमुक्तमोम्” इति ॥

निर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षयाद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरतितरामेकीभावेनावस्थानम् । तदा


भगवता—‘‘उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः पर” इति । पुनः किंरूपं तत् । गगनोपमम् । गगनमुपमा इष्टान्तो यस्य तद्गगनोपमं गगनवन्निर्लेपस्वरूपमित्यर्थः । तथा च भगवद्वचनम् ‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्राव- स्थितो देहे तथास्मा नोपलिप्यत’’ इति । यद्वा गगनोपमं गगनवदमूर्त स्वरूपमित्यर्थः । ‘आकाशशरीरं ब्रह्म’ इति श्रुतेः । पुनः किंभूतम् । सकृ- द्विभातम् । सकृदेकदैव विभातं सर्वदैकस्वरूपेण भासमानं चन्द्रादिप्रकाश- वन्न वृद्धिक्षयशीलमित्यर्थः । पुनः किंरूपम् । अजं जन्मरहितम् । एकं निर- स्तसर्वोपाधिभेदम् । अक्षरं विनाशधर्मराहित्येन कूटस्थस्वरूपमित्यर्थः । तथा च भगवानाह —‘क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यत” इति । अलेप- कमसङ्गत्वादविद्यादिदोषरहितमित्यर्थः । ‘असङ्गो ह्ययं पुरुष” इति श्रुतेः । सर्वगतं सर्वत्र ब्रहेमादिस्थावरान्तेषु भूतेषु गतं व्याप्तम् । अद्वयं सजातीयवि जातीयभेदराहित्येन द्वितीयरहितम् । सततं विमुक्तमिति सर्वदा कार्यकारणा- त्मकसर्वोपाधिविनिर्मुक्तत्वेन सततैकरूपमित्यर्थः । तथा च भागवते-बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुत” इति । तथा चैतादृशं निरतिशया- नन्दं यत्परं ब्रह्म तदेवाहमिति भावयतो निषेधप्रतियोगित्वेन तत्तदुपाधिभा नात्तत्प्रयुक्तभेदभानेऽप्यद्वैतं भासत एवेत्यर्थः । निर्विकल्पकसमाधिस्वरूपमाह निर्विकरूपकस्त्विति । अयं च द्विविधः । चिरकालाभ्यस्त यदुत्तरसविकल्पकसमा ध्यनुभवजनितसंस्कारसहकृतायाश्चित्तवृत्तेर्ज्ञात्रादि त्रिपुटीलय पूर्वकमद्वैते वस्तु 1. विमुक्तः FGHJK. but see commentary. REmatirtha explains विमुक्तः । 2. BCDE. insert here भेद and G. विभेद १. Gyo xiii. 32. २. Tar¢8, 1. 6. 2. ३. £ »v. 16४. Brh. 4. 3. 15. ५. Bhag. Powrapa 11. 11. 1. ६. तदुत्तर K.; पटुतर EJ.