पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ३०, ३१]
४७
सुबोधिनीसहितः

तु जलाकाराकारितलवणानवभासेन जलमात्रावभासवदद्वि तीयवस्त्वाकाराकारितचित्तवृत्यनवभासेनाद्वितीयवस्तुमात्रम चभासते । ततश्चास्य सुषुप्तेश्चाभेदशङ्का न भवति । उभयत्र वृत्यभाने समानेऽपि तत्सद्भावासद्भावमात्रेणानयोर्भेदोपपत्तेः ।। ३० ।।

 अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यान समाधयः । तत्र 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रह यमाः । ‘‘शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः” । कर-


न्येकभावनामकः प्रथमः । एतन्निर्विकल्पकसमाध्यभ्यासपाटवेन लुप्त संस्का रतया शात्रादित्रिपुटीलयपूर्वकमखण्डाकाराकारितायाश्चित्तवृत्तेर्विनापि स्वस्फूर्ति केवलचिदानन्दारुमनावस्थानात्मको द्वितीयः । तत्र द्वितीयं पक्षमभिप्रेत्याह ज्ञातृज्ञानादीति । नन्वेवं समधिसुषुप्त्त्योर्विक्षेपाभावेन वृत्यभानादभेदमाशङ्क्य परिहरति ततश्चेति । तत्र युक्तिमाह उभयत्रेति । समाधिसुषुप्त्योरित्यर्थः । तत्सद्भावेति । समधावज्ञायमानवृतिसद्भावात्सुषुप्तौ वृत्यभावाच तयोर्भेदो पपत्तेरित्यर्थः ॥ ३० ॥

 उक्तसमाधेः सधनापेक्षायामाह अस्याङ्गानीति । तानि च साधनानि क्रमे णोद्दिशति यमेति । यमद्यष्टाङ्गानि समाधेरन्तरङ्गसाधनानीत्यर्थः । प्रथमं यमस्य लक्षणमाह तत्रेति । तेषु यमाद्यष्टाङ्गेषु मध्येऽहिंसादयः पञ्च यमा अवश्यानुष्ठेया इत्यर्थः । तदनन्तरं नियमानाह शौचेति । शौचादयः पञ्च नियमा इत्यर्थः । आसनं लक्षयति करेति । प्राणायामलक्षणमाह रेचकेति । ‘इडया पूरयेद्वायुं मुञ्चेद्दक्षिणयानिलम्। यावच्छूासं समासीनः कुम्भयेत्तं सुषुम्णया” । यदा योगी पद्मासन उपविश्य योगमभ्यसति तदा गुल्फाभ्यां गुदमूलं निष्पीड्य खेचरीमुद्रासाहाय्येन प्राणधारणया सुषुम्णामार्गेण मूला धारात्कुण्डलिनीमुत्थाप्य स्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञानिर्वाणाख्यषट्च कभेदक्रमेण सहस्रदलकमलकर्णिकायां विधमानपरमात्मना सह संयोज्य तत्रैव वित्तं निर्वातदीपवदचलं कृत्वा स्वात्मानन्दरसं पिबतीत्येतत्प्राणायाम फलम् । स च द्विविधोऽगर्भः सगर्भश्चेति । “मुञ्चेद्दक्षिणया वायुं मात्राहीन

1. As to Sb2%e¢ being ancillary to itself, see Trans. of Sorrectors’ gxx0., p. 243. 2. 'Yogosure ii. 30. 3. Iden४. ii. 32. १. See Notes. २. Ditto. ३. Ditton